नमो॑ बभ्लु॒शाय॑ व्या॒धिने ऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑: सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नम॑:
námo babhluśā́ya vyā́dhine 'nnā́nāṃ pátaye námo | námo bhavásya hétyai jágatāṃ pátaye námo | námo rudrā́yātatāyíne kṣétrāṇāṃ pátaye námo | námaḥ sūtā́yāhántyai vánānāṃ pátaye námaḥ
褐色なる者、狩人、食物の主に敬礼——敬礼。バヴァ(Bhava)の矢(武器)に、動くものすべての主に敬礼——敬礼。襲い来たるルドラ(Rudra)に、田野の主に敬礼——敬礼。御者にして討ち滅ぼす者、森の主に敬礼——敬礼。
नमः । बभ्लुशाय । व्याधिने । अन्नानाम् । पतये । नमः । नमः । भवस्य । हेत्यै । जगताम् । पतये । नमः । नमः । रुद्राय । आततायिने । क्षेत्राणाम् । पतये । नमः । नमः । सूताय । अहन्त्यै । वनानाम् । पतये । नमः