त्रि॒वृद॑सि त्रि॒वृते॑ त्वा प्र॒वृद॑सि प्र॒वृते॑ त्वा वि॒वृद॑सि वि॒वृते॑ त्वा स॒वृद॑सि स॒वृते॑ त्वा ऽऽक्र॒मो॒ऽस्याक्र॒माय॑ त्वा संक्र॒मो॒ऽसि संक्र॒माय॑ त्वोत्क्र॒मो॒ऽस्युत्क्र॒माय॒ त्वोत्क्रा॑न्तिर॒स्युत्क्रा॑न्त्यै॒ त्वा ऽधि॑पतिनो॒र्जोर्जं॑ जिन्व
trí·vṛdasi trí·vṛte tvā pra·vṛdasi pra·vṛte tvā vi·vṛdasi vi·vṛte tvā sa·vṛdasi sa·vṛte tvā ’ā·krámo ’sy ā·kramā́ya tvā saṃ·krámo ’si saṃ·kramā́ya tvot·krámo ’sy ut·kramā́ya tvot·krā́ntir asy ut·krā́ntyai tvā ’dhípatino ūrjór ūrjáṃ jinv(a)
汝は三重(Trivṛt)なり。三重のために汝を取る。汝は前転(Pravṛt)なり。前転のために汝を取る。汝は開展(Vivṛt)なり。開展のために汝を取る。汝は合転(Savṛt)なり。合転のために汝を取る。汝は進みの歩(ākrama)なり。進みの歩のために汝を取る。汝は移りの歩(saṃkrama)なり。移りの歩のために汝を取る。汝は出で行く歩(utkrama)なり。出で行く歩のために汝を取る。汝は出離(utkrānti)なり。出離のために汝を取る。主宰の力を励まし、力に力を増さしめよ。
त्रि-वृत् असि । त्रि-वृते त्वा । प्र-वृत् असि । प्र-वृते त्वा । वि-वृत् असि । वि-वृते त्वा । स-वृत् असि । स-वृते त्वा । आ-क्रमः असि । आ-क्रमाय त्वा । सम्-क्रमः असि । सम्-क्रमाय त्वा । उत्-क्रमः असि । उत्-क्रमाय त्वा । उत्-क्रान्तिः असि । उत्-क्रान्त्यै त्वा । अधि-पतिनः ऊर्जः ऊर्जम् जिन्व ।