राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वा अधि॑पतयो॒ऽग्निर्हे॑ती॒नां प्र॑तिध॒र्ता त्रि॒वृत् त्वा॒ स्तोम॑: पृथि॒व्याᳪ श्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थायै स्तभ्नातु रथन्त॒रᳪ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। १ ०।। वि॒राड॑सि॒ दक्षि॑णा॒ दिग्रु॒द्रास्ते॑ दे॒वा अधि॑पतय॒ इन्द्रो॑ हेती॒नां प्र॑तिध॒र्ता प॑ञ्चद॒स्त्वा॒ स्तोम॑: पृथि॒व्याᳪश्र॑यतु॒ प्र उ॑गमु॒क्थमव्य॑थायै स्तभ्नातु बृ॒हत्साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु
rājñy àsi prā́cī díg vásavas te devā́ adhipátayo ’gnír hetīnā́ṃ pratidhartā́ trí·vṛt tvā stómaḥ pṛthivyā́ṃ śrayatv ā́jyaṃ ukthám avyáthāyai stabhnātu rathantaráṃ sā́ma pratíṣṭhityā antárikṣe ṛ́ṣayas tvā prathamajā́ devéṣu divó mā́trayā varímṇā prathantu vidhartā́ ca ayám adhipátiś ca te tvā sárve saṃvidānā́ nā́kasya pṛṣṭhé svargé loké yajamā́naṃ ca sādayantu || virā́ḍ asi dákṣiṇā díg rudrā́s te devā́ adhipátaya índro hetīnā́ṃ pratidhartā́ pañcadaśás tvā stómaḥ pṛthivyā́ṃ śrayatu prá-ugam ukthám avyáthāyai stabhnātu bṛhát sā́ma pratíṣṭhityā antárikṣe ṛ́ṣayas tvā prathamajā́ devéṣu divó mā́trayā varímṇā prathantu vidhartā́ ca ayám adhipátiś ca te tvā sárve saṃvidānā́ nā́kasya pṛṣṭhé svargé loké yajamā́naṃ ca sādayantu
汝は王妃の威(rājñī)、東方の方位なり。ヴァス(Vasus)は汝の神々、アグニ(Agni)は飛び道具の防護者・遮止者なり。Trivṛt は汝の讃頌(stoma)なり。大地に安らかに依りとどまれ。酥(ājya)のウクタ(uktha)は無害のためにこれを支え固めよ。Rathantara のサーマン(Sāman)は確立のためにこれを据えよ。中空において、聖仙たち——神々のうちの初生者——は、天の尺度と広がりとによって汝をひろげよ。保持者(vidhārtā)とこの主宰者(adhipati)もまた汝に属す。彼らすべてが心を合わせ、天の背、天界の世界において、祭主をも座せしめよ。 汝はヴィラージ(Virāj)、南方の方位なり。ルドラ(Rudras)は汝の神々、インドラ(Indra)は飛び道具の防護者・遮止者なり。Pañcadaśa は汝の讃頌(stoma)なり。大地に安らかに依りとどまれ。Prāuga のウクタは無害のためにこれを支え固めよ。Bṛhat のサーマンは確立のためにこれを据えよ。中空において、聖仙たち——神々のうちの初生者——は、天の尺度と広がりとによって汝をひろげよ。保持者とこの主宰者もまた汝に属す。彼らすべてが心を合わせ、天の背、天界の世界において、祭主をも座せしめよ。
राज्ञी असि । प्राची दिक् । वसवः ते देवाः अधि-पतयः । अग्निः हेतीनाम् प्रति-धर्ता । त्रि-वृत् त्वा स्तोमः । पृथि॒व्याम् श्रयतु । आज्यम् उक्थम् अव्यथायै स्तभ्नातु । रथन्तरम् साम प्रति-ष्ठित्या । अन्तरिक्षे ऋषयः त्वा प्रथम-जाः देवेषु । दिवः मात्रया वरिम्णा प्रथन्तु । विधर्ता च । अयम् अधि-पतिः च ते । त्वा सर्वे संविदानाः नाकस्य पृष्ठे स्वर्गे लोके यजमानम् च सादयन्तु ॥ विराट् असि । दक्षिणा दिक् । रुद्राः ते देवाः अधि-पतयः । इन्द्रः हेतीनाम् प्रति-धर्ता । पञ्च-दशः त्वा स्तोमः । पृथि॒व्याम् श्रयतु । प्र-उगम् उक्थम् अव्यथायै स्तभ्नातु । बृहत् साम प्रति-ष्ठित्या । अन्तरिक्षे ऋषयः त्वा प्रथम-जाः देवेषु । दिवः मात्रया वरिम्णा प्रथन्तु । विधर्ता च । अयम् अधि-पतिः च ते । त्वा सर्वे संविदानाः नाकस्य पृष्ठे स्वर्गे लोके यजमानम् च सादयन्तु ।