सह॑श्च सह॒स्य॒श्च हैम॑न्तिकावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्नम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे| है॑मन्तिकावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम्
sáhaś ca sahasyáś ca haimántikāv ṛtū́ agnér antaḥśléṣo ’si kálpetāṃ dyā́vā-pṛthivī́ kálpantām ā́pa óṣadhayaḥ kálpantām agnáyaḥ pṛtháṅ náma jyáiṣṭhyāya savrátāḥ | yé agnáyaḥ sámanaso ’ntárā dyā́vā-pṛthivī́ imé | haimántikāv ṛtū́ abhikálpamānā índram iva devā́ abhisaṃvíśantu táyā devátayā ’ṅgirasvád dhrúve sī́datam
「サハ」と「サハスヤ」——この二つの冬の季節——汝はアグニ(Agni)の内なる結び目である。天と地は正しく整えられよ。水と薬草は正しく整えられよ。諸々の火は正しく整えられよ——それぞれに敬礼——至上の位のために、同一の誓戒をもつ者として。これら天と地の間にある、心を一つにする諸火よ。冬の二季がまさに調えられるとき、神々はインドラ(Indra)に合流するがごとく、ここに合一して入り来たれ。かの神格(devatā)によって、アンギラサ(Aṅgirasa)のごとく、堅固なる所に坐せよ。
सहः । च । सहस्यः । च । हैमन्तिकौ । ऋतू । अग्नेः । अन्तः-श्लेषः । असि । कल्पेताम् । द्यावा-पृथिवी । कल्पन्ताम् । आपः । ओषधयः । कल्पन्ताम् । अग्नयः । पृथक् । नमः । ज्यैष्ठ्याय । स-व्रताः । ये । अग्नयः । समनसः । अन्तरा । द्यावा-पृथिवी । इमे । हैमन्तिकौ । ऋतू । अभि-कल्पमानाः । इन्द्रम्-इव । देवाः । अभि-संविशन्तु । तया । देवतया । अङ्गिरस्वत् । ध्रुवे । सीदतम् ।