इ॒दमु॑त्त॒रात् स्व॒स्तस्य॒ श्रोत्र॑ᳪ सौ॒वᳪ श॒रच्छ्रौ॒त्र्य॒नु॒ष्टुप् शा॑र॒द्य॒नु॒ष्टुभ॑ ऐ॒डमै॒डान्म॒न्थी म॒न्थिन॑ एकवि॒ᳪश ए॑कविᳪशाद्वै॑रा॒जं वि॒श्वामि॑त्र॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑:
i̱dám u̱ttarā́t sváḥ tasya̱ śrótram sau̱váṃ śa̱rác-chrau̱try a̱nu̱ṣṭúp śā̱rad y-a̱nu̱ṣṭúbha ai̱ḍám ai̱ḍān ma̱nthī ma̱nthina e̱kavi̱ṃśa e̱kavi̱ṃśād vai̱rā̱jaṃ vi̱śvā́mitra̱ ṛ́ṣiḥ prajāpati-gṛhītayā̱ tváyā̱ śrótraṃ gṛhṇāmi pra̱jā́bhyaḥ
これは北方より来たる天である。その「耳」は天の耳である。秋は耳に属し、秋の韻律はアヌシュトゥブ(Anuṣṭubh)である。アヌシュトゥブよりアイダ(Aiḍa)が生じ、アイダよりマンティン(Manthin)、マンティンより二十一(Ekaviṃśa)、二十一よりヴァイラージャ(Vairāja)が生ずる。ヴィシュヴァーミトラ(Viśvāmitra)は聖見者(ṛṣi)である。プラジャーパティ(Prajāpati)により把持された汝とともに、我は諸プラジャ(praja)のためにこの耳を取る。
इदम् । उत्तरात् । स्वः । तस्य । श्रोत्रम् । सौवम् । शरद् । श्रौत्री । अनुष्टुप् । शारदी । अनुष्टुभः । ऐडम् । ऐडात् । मन्थी । मन्थिनः । एकविंशः । एकविंशात् । वैराजम् । विश्वामित्रः । ऋषिः । प्रजापति-गृहीतया । त्वया । श्रोत्रम् । गृह्णामि । प्रजाभ्यः ।