वात॑स्य जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नᳪ स॑रि॒रस्य॒ मध्ये॑ । शिशुं॑ न॒दीना॒ᳪ ह॒रि॒मद्रि॑बुध्न॒मग्ने॒ मा हि॑ᳪसीः पर॒मे व्यो॑मन्
vātásya jūtíṃ váruṇasya nā́bhim áśvaṃ jajñānáṃ śarīrásya mádhye | śíśuṃ nadī́nāṃ harím ádribudhnam agne mā́ hiṃsīḥ paramé vyòman
風の疾き衝き、ヴァルナの臍——その身のただ中に生まれたる馬。川々の幼子のごとく、黄褐にして岩を底とするものよ。アグニよ、至高の天において、これを傷つけるな。
वातस्य । जूतिम् । वरुणस्य । नाभिम् । अश्वम् । जज्ञानम् । शरीरस्य । मध्ये । शिशुम् । नदीनाम् । हरिम् । अद्रि-बुध्नम् । अग्ने । मा । हिंसीः । परमे । व्योमन्