भव॑तं न॒: सम॑नसौ॒ सचे॑तसावरे॒पसौ॑ । मा य॒ज्ञᳪ हि॑ᳪसिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य न॑:
bhávataṃ naḥ sámanasau sá-cetasāv arepásau | mā́ yajñáṃ hiṃsiṣṭaṃ mā́ yajñápatim jātávedasau śiváu bhavatam adyá naḥ
汝ら二柱よ、われらのために同心・同意となり、同じ覚知をもち、汚れなき者となれ。ジャータヴェーダス(Jātavedas)よ、祭(yajña)を損なうな、祭主を損なうな。今日、われらにとって吉祥(śiva)となれ。
भवतम् । नः । समनसौ । सचेतसौ । अरेपसौ । मा । यज्ञम् । हिंसिष्टम् । मा । यज्ञपतिम् । जातवेदसौ । शिवौ । भवतम् । अद्य । नः ।