स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑
sahá ráyyā ní vartasvā́gne pínvasva dhā́rayā | viśvápsnyā viśvátas pári ||
アグニよ、富とともに再び帰れ。流れをもって我らを潤し、栄えしめよ。遍く行きわたる者よ、四方より我らを取り囲み護れ。
सह । रय्या । नि । वर्तस्व । अग्ने । पिन्वस्व । धारया । विश्वप्स्न्या । विश्वतः । परि