ऋ॒तᳪ स॒त्यमृ॒तᳪ स॒त्यम॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वद्भ॑रामः । ओष॑धय॒: प्रति॑ मोदध्वम॒ग्निमे॒तᳪ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः । व्यस्य॒न् विश्वा॒ अनि॑रा॒ अमी॑वा नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिं ज॑हि
ṛtáṃ satyám ṛtáṃ satyám agníṃ purīṣyám aṅgirasvád bharāmaḥ | óṣadhayaḥ práti modadhvam agním etáṃ śivám ā́yantam abhý atra yuṣmā́ḥ | vy àsyan víśvā anírā amī́vā niṣī́dann no ápa durmatíṃ jahi
リタ(ṛta:宇宙の秩序)とサティヤ(satya:真実)——リタとサティヤ——われらはアンギラサ(Aṅgirasa)たちの作法に従い、湿土の火なるアグニ(Agni)を奉持する。薬草たちよ、この吉祥なるアグニが汝らのもとへ来たるを喜べ。あらゆる害ある病を散らし、われらの中に坐して、悪しき思いを打ち払え。
ऋ॒तम् । स॒त्यम् । ऋ॒तम् । स॒त्यम् । अ॒ग्निम् । पु॑री॒ष्यम् । अङ्गिर॒स्वत् । भ॑रामः । ओष॑धयः । प्रति॑ । मोदध्वम् । अ॒ग्निम् । ए॒तम् । शि॒वम् । आ॒यन्त॑म् । अ॒भि । अत्र॑ । यु॒ष्माः । वि । अ॒स्य॒न् । विश्वा॑ः । अ॒नि॑राः । अमी॑वाः । नि॒-सीद॑न् । नः । अप॑ । दुर्म॒तिम् । ज॑हि