स जा॒तो गर्भो॑ असि॒ रोद॑स्योरग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशु॒ः परि॒ तमा॑ᳪस्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रद॒द्गाः ॥
sá jātó gárbho asi ródasyor agne cā́rur víbhṛta óṣadhīṣu | citráḥ śíśuḥ pári támāṃsy aktū́n prá mā́tṛbhyo ádhi kaníkradad gā́ḥ ||
アグニ(Agni)よ、汝は生まれるや、両界(天と地)の胎である。麗しく、草木・薬草のうちに抱かれている。驚異の幼子よ、汝は闇と夜々を取り巻き、声高く叫びて、母らから牛たちを追い出し現れさせた。
सः । जातः । गर्भः । असि । रोदस्योः । अग्ने । चारुः । विभृतः । ओषधीषु । चित्रः । शिशुः । परि । तमांसि । अक्तून् । प्र । मातृभ्यः । अधि । कनिक्रदत् । गाः ।