अ॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ । ऽर्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्तौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्ताप॑: परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ । ऽप॑: परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्ता॒पां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ । ऽपां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देह्य॒पां गर्भो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ । ऽपां गर्भो॑ सि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि॒
arthéta stha rāṣṭradā rāṣṭráṃ me datta svā́hā | ’rthéta stha rāṣṭradā rāṣṭrám amúṣmai datta | ójasvatī stha rāṣṭradā rāṣṭráṃ me datta svā́hā | ójasvatī stha rāṣṭradā rāṣṭrám amúṣmai datta | ā́paḥ parivāhíṇī stha rāṣṭradā rāṣṭráṃ me datta svā́hā | ā́paḥ parivāhíṇī stha rāṣṭradā rāṣṭrám amúṣmai datta | apā́ṃ pátir asi rāṣṭradā rāṣṭráṃ me dehi svā́hā | apā́ṃ pátir asi rāṣṭradā rāṣṭrám amúṣmai dehi | apā́ṃ gárbho ’si rāṣṭradā rāṣṭráṃ me dehi svā́hā | apā́ṃ gárbho ’si rāṣṭradā rāṣṭrám amúṣmai dehi
汝らは成就力ある者、国土を授ける者なり。われに国土を与えよ――スヴァーハー。汝らは成就力ある者、国土を授ける者なり。彼に国土を与えよ。汝らは力に満つる者、国土を授ける者なり。われに国土を与えよ――スヴァーハー。汝らは力に満つる者、国土を授ける者なり。彼に国土を与えよ。汝らはめぐり流れる水、国土を授ける者なり。われに国土を与えよ――スヴァーハー。汝らはめぐり流れる水、国土を授ける者なり。彼に国土を与えよ。汝は水の主、国土を授ける者なり。われに国土を授けよ――スヴァーハー。汝は水の主、国土を授ける者なり。彼に国土を授けよ。汝は水の胎、国土を授ける者なり。われに国土を授けよ――スヴァーハー。汝は水の胎、国土を授ける者なり。彼に国土を授けよ。
अ॒र्थेत॑ । स्थः । रा॒ष्ट्र॒दाः । रा॒ष्ट्रम् । मे॒ । द॒त्त । स्वाहा॒ । अ॒र्थेत॑ । स्थः । रा॒ष्ट्र॒दाः । रा॒ष्ट्रम् । अ॒मुष्मै॑ । द॒त्त । ओज॑स्वती । स्थः । रा॒ष्ट्र॒दाः । रा॒ष्ट्रम् । मे॒ । द॒त्त । स्वाहा॑ । ओज॑स्वती । स्थः । रा॒ष्ट्र॒दाः । रा॒ष्ट्रम् । अ॒मुष्मै॑ । द॒त्त । अ॒पः । प॒रि॒वा॒हिणीः॑ । स्थः । रा॒ष्ट्र॒दाः । रा॒ष्ट्रम् । मे॒ । द॒त्त । स्वाहा॑ । अ॒पः । प॒रि॒वा॒हिणीः॑ । स्थः । रा॒ष्ट्र॒दाः । रा॒ष्ट्रम् । अ॒मुष्मै॑ । द॒त्त । अ॒पाम् । पतिः॑ । अ॒सि । रा॒ष्ट्र॒दाः । रा॒ष्ट्रम् । मे॒ । दे॒हि । स्वाहा॒ । अ॒पाम् । पतिः॑ । अ॒सि । रा॒ष्ट्र॒दाः । रा॒ष्ट्रम् । अ॒मुष्मै॑ । दे॒हि । अ॒पाम् । गर्भः॑ । अ॒सि । रा॒ष्ट्र॒दाः । रा॒ष्ट्रम् । मे॒ । दे॒हि । स्वाहा॒ । अ॒पाम् । गर्भः॑ । अ॒सि । रा॒ष्ट्र॒दाः । रा॒ष्ट्रम् । अ॒मुष्मै॑ । दे॒हि