इ॒मं दे॑वा असप॒त्नᳪ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यै॑ष्ठ्याय मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑ । इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रमस्यै वि॒श ए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ᳪराजा॑
imáṃ devā asapátnaṃ suvadhvaṃ mahaté kṣatrā́ya mahaté jyáiṣṭhyāya mahaté jā́narājyāyéndrasya indriyā́ya | imám amúṣya putrám amúṣyai putrám asyai víśa eṣá vo ’mī rājā sómo ’smā́kaṃ brāhmaṇā́nāṃ rājā́
神々よ、この人を無敵無対の者となさしめよ。大いなる支配のために、大いなる卓越のために、大いなる民の王権のために、インドラ(Indra)の主権の力のために、彼を栄えさせよ。これはかの者の子、かの母の子—諸氏族に与えられし者:彼こそ汝らの王。王ソーマ(Soma)—彼は我らブラーフマナ(Brāhmaṇa)の王なり。
इमम् । देवाः । असपत्नम् । सुवध्वम् । महते । क्षत्राय । महते । ज्यैष्ठ्याय । महते । जान-राज्याय । इन्द्रस्य । इन्द्रियाय । इमम् । अमुष्य । पुत्रम् । अमुष्यै । पुत्रम् । अस्यै । विशः । एषः । वः । अमी । राजा । सोमः । अस्माकम् । ब्राह्मणानाम् । राजा