Sukta 8.101
माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥
मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभि॑: । प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥
mātā́ rudrā́ṇāṃ duhitā́ vásūnāṃ svásādityā́nām amṛ́tasya nā́bhiḥ | prá nu vocaṃ cikituṣé jánāya mā́ gā́m anā́gām áditiṃ vadhiṣṭa ||
ルドラたちの母、ヴァスたちの娘、アーディティヤたちの姉妹——不死の臍(へそ)なるもの。いま我は、識り分ける人々に向けて彼女を宣言する。牝牛を打つな、罪なきアディティ(Aditi、無限)を傷つけるな;汝の内なる不死の源を損なうな。
मा॒ता । रु॒द्राणा॑म् । दु॒हि॒ता । वसू॑नाम् । स्वसा॑ । आ॒दि॒त्याना॑म् । अ॒मृत॑स्य । नाभिः॑ । प्र । नु । वो॒च॒म् । चि॒कि॒तुषे॑ । जना॑य । मा । गाम् । अना॑गाम् । अदि॑तिम् । व॒धि॒ष्ट॒ ॥माता । रुद्राणाम् । दुहिता । वसूनाम् । स्वसा । आदित्यानाम् । अमृतस्य । नाभिः । प्र । नु । वोचम् । चिकितुषे । जनाय । मा । गाम् । अनागाम् । अदितिम् । वधिष्ट ॥mātā | rudrāṇām | duhitā | vasūnām | svasā | ādityānām | amṛtasya | nābhiḥ | pra | nu | vocam | cikituṣe | janāya | mā | gām | anāgām | aditim | vadhiṣṭa