Sukta 7.18
इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः । दुर्मित्रासः प्रकलविन्मिमाना जहुर्विश्वानि भोजना सुदासे ॥
इन्द्रे॑णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒ आपो॒ न सृ॒ष्टा अ॑धवन्त॒ नीची॑: । दु॒र्मि॒त्रास॑: प्रकल॒विन्मिमा॑ना ज॒हुर्विश्वा॑नि॒ भोज॑ना सु॒दासे॑ ॥
índreṇáite tṛ́tsavo vevíṣāṇā ā́po ná sṛṣṭā́ adhavanta nī́cīḥ | durmítrāsaḥ prakalavín mimānā jahúr víśvāni bhójanā sudā́se ||
インドラとともに、これらトリツ(Tṛtsu)は力のうねりに歓喜し、放たれた水のごとく下方へと奔り落ちた。悪しき同盟の者らは、曲がりくねって量り定めつつ、あらゆる享受と養いの糧を、スダース(Sudās)――善き施与者――へと、存在のうちに捨て去った。
इन्द्रे॑ण । ए॒ते । तृत्स॑वः । वेवि॑षाणाः । आपः॑ । न । सृ॒ष्टाः । अ॒ध॒व॒न्त॒ । नीचीः॑ । दुः॒ऽमि॒त्रासः॑ । प्र॒क॒ल॒ऽवित् । मिमा॑नाः । ज॒हुः । विश्वा॑नि । भोज॑ना । सु॒ऽदासे॑ ॥इन्द्रेण । एते । तृत्सवः । वेविषाणाः । आपः । न । सृष्टाः । अधवन्त । नीचीः । दुःमित्रासः । प्रकलवित् । मिमानाः । जहुः । विश्वानि । भोजना । सुदासे ॥indreṇa | ete | tṛtsavaḥ | veviṣāṇāḥ | āpaḥ | na | sṛṣṭāḥ | adhavanta | nīcīḥ | duḥ-mitrāsaḥ | prakala-vit | mimānāḥ | jahuḥ | viśvāni | bhojanā | su-dāse