Sukta 6.14
अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः । वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥
अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोच॑: सुम॒तिं रोद॑स्योः । वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥
áchā no mitra-maho deva devā́n agne vócaḥ su-matíṁ ródasyoḥ | vī́hi svastíṁ su-kṣitíṁ divó nṝ́n dvíṣo aṁhā́ṁsi duritā́ taréma tā́ taréma tavā́vasā taréma ||
友なる大いなる威徳をもつ神アグニよ、われらのために諸神に告げよ、天と地(Rodasī)の善き思いをもたらして。われらを安寧(svasti)と良き住まい(sukṣiti)へ導き、高天の輝ける力ある者たちへと導け。憎しみ、窮迫、邪なる道を渡り越えん——まことに汝の加護によって渡り越えん、汝の加護によって渡り越えん。
अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः । वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥अच्छ । नः । मित्रमहः । देव । देवान् । अग्ने । वोचः । सुमतिम् । रोदस्योः । वीहि । स्वस्तिम् । सुक्षितिम् । दिवः । नॄन् । द्विषः । अंहांसि । दुःइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥accha | naḥ | mitra-mahaḥ | deva | devān | agne | vocaḥ | su-matim | rodasyoḥ | vīhi | svastim | su-kṣitim | divaḥ | nṝn | dviṣaḥ | aṃhāṃsi | duḥ-itā | tarema | tā | tarema | tava | avasā | tarema