Sukta 10.99
स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणे परादात् । अयं कविमनयच्छस्यमानमत्कं यो अस्य सनितोत नृणाम् ॥
स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् । अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ॥
sa vrā́dhataḥ śavasānébhir asya kútsāya śúṣṇaṁ kṛpáṇe párā dāt | ayáṁ kavím anayac chasyámānam átkaṁ yó asya sánitotá nṛṇām ||
彼はこれらの奔り立つ力によって威勢を増し、クツァ(Kutsa)のためにシュシュナ(Śuṣṇa)を打ち落として窮乏へ追いやった。この主は、讃えられつつある詩聖——アトカ(Atka)——を前へ導いた。彼は彼のためにも、人々のためにも勝利を得る者である。
सः । व्राध॑तः । श॒व॒सा॒नेभिः॑ । अ॒स्य॒ । कुत्सा॑य । शुष्ण॑म् । कृ॒पणे॑ । परा॑ । अ॒दा॒त् । अ॒यम् । क॒विम् । अ॒न॒य॒त् । श॒स्यमा॑नम् । अत्क॑म् । यः । अ॒स्य॒ । सनि॑ता । उ॒त । नृ॒णाम् ॥सः । व्राधतः । शवसानेभिः । अस्य । कुत्साय । शुष्णम् । कृपणे । परा । अदात् । अयम् । कविम् । अनयत् । शस्यमानम् । अत्कम् । यः । अस्य । सनिता । उत । नृणाम् ॥saḥ | vrādhataḥ | śavasānebhiḥ | asya | kutsāya | śuṣṇam | kṛpaṇe | parā | adāt | ayam | kavim | anayat | śasyamānam | atkam | yaḥ | asya | sanitā | uta | nṛṇām