Sukta 10.163
अङ्गादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि । यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥
अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
aṅgā́d aṅgāl lómno lomno jātáṃ párvaṇi-parvaṇi | yakṣmáṃ sárvasmād ātmánas tám idáṃ ví vṛhāmi te ||
肢より肢へ、毛より毛へ、あらゆる関節ごとに生じ直す――そのヤクシュマ(yakṣma)を、汝の全き自己より――まさにこのそれを――我は根こそぎ抜き、汝より引き裂き離す。
अङ्गा॑त्ऽअङ्गात् । लोम्नः॑ऽलोम्नः । जा॒तम् । पर्व॑णिऽपर्वणि । यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥अङ्गात्अङ्गात् । लोम्नःलोम्नः । जातम् । पर्वणिपर्वणि । यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥aṅgāt-aṅgāt | lomnaḥ-lomnaḥ | jātam | parvaṇi-parvaṇi | yakṣmam | sarvasmāt | ātmanaḥ | tam | idam | vi | vṛhāmi | te