Sukta 10.123
अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे व्योमन् । चरत्प्रियस्य योनिषु प्रियः सन्त्सीदत्पक्षे हिरण्यये स वेनः ॥
अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा॑ बिभर्ति पर॒मे व्यो॑मन् । चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्त्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ॥
apsarā́ jā́ram upasiṣmiyāṇā́ yóṣā bibharti paramé vyòman | cárat priyásya yóniṣu priyáḥ sán sī́dat pakṣé hiraṇyáye sá vénaḥ ||
アプサラスは恋人に向かって微笑み、その女は至高の天において彼を抱き宿す。愛しき者の胎処を巡りつつ、みずからも愛される者として、ヴェーナは黄金の翼に憩い座す。
अ॒प्स॒राः । जा॒रम् । उ॒प॒ऽसि॒ष्मि॒या॒णा । योषा॑ । बि॒भ॒र्ति॒ । प॒र॒मे । विऽओ॑मन् । चर॑त् । प्रि॒यस्य॑ । योनि॑षु । प्रि॒यः । सन् । सीद॑त् । प॒क्षे । हि॒र॒ण्यये॑ । सः । वे॒नः ॥अप्सराः । जारम् । उपसिष्मियाणा । योषा । बिभर्ति । परमे । विओमन् । चरत् । प्रियस्य । योनिषु । प्रियः । सन् । सीदत् । पक्षे । हिरण्यये । सः । वेनः ॥apsarāḥ | jāram | upa-siṣmiyāṇā | yoṣā | bibharti | parame | vi-oman | carat | pri yasya | yoniṣu | priyaḥ | san | sīdat | pakṣe | hiraṇyaye | saḥ | venaḥ