Sukta 10.122
नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः । रायस्पोषं यजमानेषु धारय यूयं पात स्वस्तिभिः सदा नः ॥
नि त्वा॒ वसि॑ष्ठा अह्वन्त वा॒जिनं॑ गृ॒णन्तो॑ अग्ने वि॒दथे॑षु वे॒धस॑: । रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
ní tvā vásiṣṭhā ahvanta vā́jinaṃ gṛṇánto agne vidátheṣu vedhásaḥ | rāyás póṣaṃ yajamānéṣu dhāraya yūyáṃ pāta svastí-bhiḥ sádā naḥ ||
ヴァシシュタたちは汝を呼び降ろした、豊饒に勝つ者よ。集会(vidatha)において、先見の者(vedhas)として汝を讃える、アグニ(Agni)よ。祭主(yajamāna)たちのうちに、ライ(rayi、富・光輝の資粮)の増大と繁栄を保ち支えよ。しかして汝らは、スヴァスティ(svasti、安寧吉祥)の力によって、つねに我らを守れ。
नि । त्वा॒ । वसि॑ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन॑म् । गृ॒णन्तः॑ । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ । रा॒यः । पोष॑म् । यज॑मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नि । त्वा । वसिष्ठाः । अह्वन्त । वाजिनम् । गृणन्तः । अग्ने । विदथेषु । वेधसः । रायः । पोषम् । यजमानेषु । धारय । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥ni | tvā | vasiṣṭhāḥ | ahvanta | vājinam | gṛṇantaḥ | agne | vidatheṣu | vedhasaḥ | rāyaḥ | poṣam | yajamāneṣu | dhāraya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ