Sukta 10.122
वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम् । स रासते शुरुधो विश्वधायसोऽग्निर्होता गृहपतिः सुवीर्यम् ॥
वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् । स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ॥
vásuṃ na citrám-ahasaṃ gṛṇīṣe vāmáṃ śévam-átithim adviṣeṇyám | sá rāsate śurúdho viśvá-dhāyaso ’gnír hotā́ gṛhá-patiḥ su-vī́ryam ||
われはアグニを讃う——宝のごとく富み、さまざまの輝きを具え、恵み深く望ましき、憎しみなき客人を。彼はあらゆる仕方で、満ち溢れる奔流を与える——アグニ、供犠の祭司(hotṛ)、家の主(gṛhapati)、善き勇力をもたらす者。
वसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् । सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥वसुम् । न । चित्रमहसम् । गृणीषे । वामम् । शेवम् । अतिथिम् । अद्विषेण्यम् । सः । रासते । शुरुधः । विश्वधायसः । अग्निः । होता । गृहपतिः । सुवीर्यम् ॥vasum | na | citra-mahasam | gṛṇīṣe | vāmam | śevam | atithim | adri-ṣeṇyam | saḥ | rāsate | śurudhaḥ | viśva-dhāyasaḥ | agniḥ | hotā | gṛha-patiḥ | su-vīryam