Sukta 10.118
तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत । अदाभ्यं गृहपतिम् ॥
तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत । अदा॑भ्यं गृ॒हप॑तिम् ॥
táṃ martā́ amártyaṃ ghṛténā́gníṃ saparyata | adā́bhyaṃ gṛhápatim ||
人の子らはギー(ghṛta)をもって、その不死なるアグニ(Agni)を敬い仕える——打ち破られぬ者、家の主(gṛhapati)を。
तम् । म॒र्ताः॒ । अम॑र्त्यम् । घृ॒तेन॑ । अ॒ग्निम् । स॒प॒र्य॒त॒ । अदा॑भ्यम् । गृ॒हऽप॑तिम् ॥तम् । मर्ताः । अमर्त्यम् । घृतेन । अग्निम् । सपर्यत । अदाभ्यम् । गृहपतिम् ॥tam | martāḥ | amartyam | ghṛtena | agnim | saparyata | adābhyam | gṛha-patim