Sukta 1.165
एष वः स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥
ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
eṣá vaḥ stómó maruta iyáṁ gī́r māndāryásya mā́nyasya kā́roḥ | eṣā́ yāsīṣṭa tanvé vayā́ṁ vidyā́meṣáṁ vṛ́janaṁ jī́ra-dānum ||
これは汝らの讃歌、マルトたちよ。これは讃える者、尊ぶべきマーンダーリヤ(Māndārya)の歌である。これを携えて、われらの身なる存在へ来たれ。そうしてわれらが知り得るようにせよ、この剛健なる群れを——施与に迅き者を——力の充溢を。
ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः । आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः । आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ | ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum