Sukta 1.164
समानमेतदुदकमुच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ॥
स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति॒ दिवं॑ जिन्वन्त्य॒ग्नय॑: ॥
samā́nam etád udakám úc caiti áva ca áhobhiḥ | bhū́miṃ parjányā jínvanti dívam jinvanty agnáyaḥ ||
これは同一の水である。日々とともに高く昇り、また降りてゆく。パルジャニヤ(Parjanya)の雨の力は大地を活気づけ、アグニ(Agni)たる火は天を活気づける。かくして一つの循環が、われらの内なる二つの世界を養う。
स॒मा॒नम् । ए॒तत् । उ॒द॒कम् । उत् । च॒ । एति॑ । अव॑ । च॒ । अह॑ऽभिः । भूमि॑म् । प॒र्जन्याः॑ । जिन्व॑न्ति । दिव॑म् । जि॒न्व॒न्ति॒ । अ॒ग्नयः॑ ॥समानम् । एतत् । उदकम् । उत् । च । एति । अव । च । अहभिः । भूमिम् । पर्जन्याः । जिन्वन्ति । दिवम् । जिन्वन्ति । अग्नयः ॥samānam | etat | udakam | ut | ca | eti | ava | ca | aha-bhiḥ | bhūmim | parjanyāḥ | j invanti | divam | jinvanti | agnayaḥ