Sukta 1.164
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥
ápaśyaṁ gopā́m anípadyamānam ā́ ca párā ca pathíbhiś cárantam | sá sadhṛ́cīḥ sá viṣū́cīr vásāna ā́ varīvarti bhúvaneṣv antár ||
わたしは見た、つまずくことなき牧牛者(Gopā)が、道々を往き来して巡るのを。彼はまっすぐ行く道と分かれゆく道とをともに身にまとい、諸世界の内で回り、また回り返して、魂の旅のための余地をひらく。
अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् । सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥अपश्यम् । गोपाम् । अनिपद्यमानम् । आ । च । परा । च । पथिभिः । चरन्तम् । सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥apaśyam | gopām | ani-padyamānam | ā | ca | parā | ca | pathi-bhiḥ | carantam | saḥ | sadhrīcīḥ | saḥ | viṣūcīḥ | vasānaḥ | ā | varīvarti | bhuvaneṣu | antariti