Sukta 1.128
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम् । विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते । अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥
अ॒यं जा॑यत॒ मनु॑षो॒ धरी॑मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु॑ व्र॒तम॒ग्निः स्वमनु॑ व्र॒तम् । वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते । अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ॥
ayáṃ jāyata mánuṣo dhárīmaṇi hótā yájiṣṭha uśíjām ánu vratám agníḥ svám ánu vratám | viśvá-śruṣṭiḥ sakhīyáte rayír iva śravasyáte | adábhho hótā ní ṣadad iḷás pade pári-vīta iḷás pade ||
このアグニ(Agni)は人のために生まれ、堅固な支えのうちに立つ。供犠に最もふさわしい祭官ホータル(Hotar)として、熱心なるウシジ(Uśij)の掟に従い——アグニはまた自らの掟に従う。万(よろず)に仕える者(viśvaśruṣṭi)は、われらの友となり、富(rayi)のごとく讃えられ、名声を得るべきである。欺かれぬホータルは、イラー(Iḷā)の座に坐し、周りを囲まれて、イラーの座に坐す。
अयम् । जा॒य॒त॒ । मनु॑षः॑ । धरी॑मणि । होता॑ । यजि॑ष्ठः । उ॒शिजा॑म् । अनु॑ । व्र॒तम् । अ॒ग्निः । स्वम् । अनु॑ । व्र॒तम् । वि॒श्वऽश्रु॑ष्टिः । स॒खि॒ऽय॒ते । र॒यिःऽइ॑व । श्र॒व॒स्य॒ते । अद॑ब्धः । होता॑ । नि । स॒द॒त् । इ॒ळः । प॒दे । परि॑ऽवीतः । इ॒ळः । प॒दे ॥अयम् । जायत । मनुषः । धरीमणि । होता । यजिष्ठः । उशिजाम् । अनु । व्रतम् । अग्निः । स्वम् । अनु । व्रतम् । विश्वश्रुष्टिः । सखियते । रयिःइव । श्रवस्यते । अदब्धः । होता । नि । सदत् । इळः । पदे । परिवीतः । इळः । पदे ॥ayam | jāyata | manuṣaḥ | dharīmaṇi | hotā | yajiṣṭhaḥ | uśijām | anu | vratam | agniḥ | svam | anu | vratam | viśva-śruṣṭiḥ | sakhi-yate | rayiḥ-iva | śravasyate | adabdhaḥ | hotā | ni | sadat | iḷaḥ | pade | pari-vītaḥ | iḷaḥ | pade