Sukta 1.123
सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम । अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥
स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ । अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥
sadṛ́śīr adyá sadṛ́śīr íd u śvó dīrgháṃ sacante váruṇasya dhā́ma | anavadyā́s triṃśatáṃ yójanāny ékā-ekā krátum pári yanti sadyáḥ ||
今日も同じく、明日もまた同じく、彼女らはヴァルナ(Varuṇa)の遥かに広がる住処を追い行く。咎なき者らは、それぞれ独りにして、しかもただちに三十の行程を渡り、意志(クラトゥ)の働きをめぐり巡る——かくて日々は「広大なるもの」の法(ṛta)において満ちる。
स॒ऽदृशीः॑ । अ॒द्य । स॒ऽदृशीः॑ । इत् । ऊँ॒ इति॑ । श्वः । दी॒र्घम् । स॒च॒न्ते॒ । वरु॑णस्य । धाम॑ । अ॒न॒व॒द्याः । त्रिं॒शत॑म् । योज॑नानि । एका॑ऽएका । क्रतु॑म् । परि॑ । य॒न्ति॒ । स॒द्यः ॥सदृशीः । अद्य । सदृशीः । इत् । ऊँ इति । श्वः । दीर्घम् । सचन्ते । वरुणस्य । धाम । अनवद्याः । त्रिंशतम् । योजनानि । एकाएका । क्रतुम् । परि । यन्ति । सद्यः ॥sa-dṛśīḥ | adya | sa-dṛśīḥ | it | oṃ iti | śvaḥ | dīrgham | sacante | varuṇasya | dhāma | anavadyāḥ | triṃśatam | yojanāni | ekāekā | kratum | pari | yanti | sadyaḥ