Sukta 1.122
स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः । विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः ॥
स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूत॒: शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः । विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा॑सु पृ॒त्सु सद॒मिच्छूर॑: ॥
sá vrā́dhato náhuṣo dáṃsu-jūtaḥ śárdhas-taro narā́ṃ gūrtá-śravāḥ | visṛ́ṣṭa-rātir yāti bāḷhá-sṛtvā víśvāsu pṛ́tsu sádam íc chū́raḥ ||
彼は——ナフシャ(Nahuṣa)の子、巧み(dáṃsu)に駆り立てられ——人々の隊列にも勝って強く、確かな名声を具えた者。放たれた贈与を携えて進み、堅き道を力強く突き抜ける。あらゆる戦いにおいて、その勇士はつねに勝利の前進を求める。
सः । व्राध॑तः । नहु॑षः । दम्ऽसु॑जूतः । शर्धः॑ऽतरः । न॒राम् । गू॒र्तऽश्र॑वाः । विसृ॑ष्टऽरातिः । या॒ति॒ । बा॒ळ्ह॒ऽसृत्वा॑ । विश्वा॑सु । पृ॒त्ऽसु । सद॑म् । इत् । शूरः॑ ॥सः । व्राधतः । नहुषः । दम्सुजूतः । शर्धःतरः । नराम् । गूर्तश्रवाः । विसृष्टरातिः । याति । बाळ्हसृत्वा । विश्वासु । पृत्सु । सदम् । इत् । शूरः ॥saḥ | vrādhataḥ | nahuṣaḥ | dam-sujūtaḥ | śardhaḥ-taraḥ | narām | gūrta-śravāḥ | visṛṣṭa-rātiḥ | yāti | bāḷha-sṛtvā | viśvāsu | pṛt-su | sadam | it | śūraḥ