
कूर्मसंस्थान-नक्षत्रदेशवर्णन (Kūrma-saṃsthāna–Nakṣatra-Deśa-Varṇana)
The Solar Attendants
本章は、ナーラーヤナがクールマ(亀)の姿をとることを拠り所として、バーラタの地を体系的に描き出す。ナクシャトラ(宿)、方位、諸地域を順に挙げ、惑星の影響や凶作用が各地とどのように結びつき、安楽または災厄をもたらすかを説く。荘厳で百科的な語り口により、宇宙の秩序とダルマを示す。
Verse 1
इति श्रीमार्कण्डेयपुराणेऽथ नद्यादिवर्णन नाम सप्तपञ्चाशोऽध्यायः । अष्टपञ्चाशोऽध्यायः—५८ । क्रौष्टुकिरुवाच भगवन् कथितं सम्यक् भवता भारतं मम । सरितः पर्वता देशा ये च तत्र वसन्ति वै ॥
かくして『吉祥なるマールカンデーヤ・プラーナ』において、「河川および関連事項の叙述」と名づけられた第五十七章は終わり、いま第五十八章が始まる。クラウシュトゥキは言った。「おおバガヴァーンよ、あなたはバーラタの河川・山岳・諸地方、そしてそこに住む者たちを、私に正しく説き示してくださいました。」
Verse 2
किन्तु कूर्मस्त्वया पूर्वं भारते भगवान् हरिः । कथितस्तस्य संस्थानं श्रोतुमिच्छाम्यशेषतः ॥
しかし先に、あなたはバーラタに関連して、クールマ—バガヴァーン・ハリ—について語られました。私はそのクールマの形相と広がり(範囲)を、余すところなくお聞きしたいのです。
Verse 3
कथं स संस्थितो देवः कूर्मरूपी जनार्दनः । शुभाशुभं मनुष्याणां व्यज्यते च ततः कथम् । यथामुखं यथापादन्तस्य तद्ब्रूह्यशेषतः ॥
亀の姿に安住する主ジャナールダナ(Janārdana)は、いかにして配されているのか。またそこから、人々にとっての吉果と凶果はいかに示されるのか。御顔の向く方角と御足の及ぶ範囲に従って、余すところなく説き明かせ。
Verse 4
मार्कण्डेय उवाच प्राङ्मुखो भगवान् देवः कूर्मरूपी व्यवस्थितः । आक्रम्य भारतं वर्षं नवभेदमिदं द्विज ॥
マールカンデーヤは言った。「福徳ある主は亀の姿にて、東に面して鎮座する。バーラタ・ヴァルシャ(Bhārata-varṣa)を包み、この九分の区分として配されるのだ、二度生まれの者よ。」
Verse 5
नवधा संस्थितान्यस्य नक्षत्राणि समन्ततः । विषयाश्च द्विजश्रेष्ठ ये सम्यक् तान्निबोध मे ॥
その周囲には、主のナクシャトラ(宿)が九様に配されている。さらに諸地域(ヴィシャヤ)についても、二度生まれの中の最勝者よ、何であるかを私から正しく理解せよ。
Verse 6
वेदमन्त्राः विमाण्डव्याः शाल्वनीपास्तथा शकाः । उज्जिहानास्तथा वत्स घोषसंख्यास्तथा खसाः ॥
(これらの民・領域とは、)ヴェーダマンタラ族(Vedamantra)、ヴィマーンダヴィヤ族(Vimāṇḍavya)、シャールヴァニーパ族(Śālvanīpa)、シャカ族(Śaka)。同様にウッジヒャーナ族(Ujjihāna)。そして、愛しき者よ、ゴーシャサンキヤ族(Ghoṣasaṃkhya)ならびにカサ族(Khasa)である。
Verse 7
मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः । धर्मारण्याः ज्योतिषिकाः गौरग्रीवा गुडाश्मकाः ॥
中央には、サーラスヴァタ族(Sārasvata)、マツヤ族(Matsya)、シューラセーナ族(Śūrasena)、そしてマトゥラー(Mathurā)の人々がいる。(また)ダルマーラニヤ族(Dharmāraṇya)、ジョーティシカ族(Jyotiṣika)、ガウラグリーヴァ族(Gauragrīva)、グダーシュマカ族(Guḍāśmaka)もいる。
Verse 8
कालकोटिसपाषण्डाः पारियात्रनिवासिनः । कापिङ्गलाः कुरुर्बाह्यस्तथैवोडुम्बरा जनाः ॥
カラコーティ族とパーシャṇḍa(異端)たち、パーリヤートラの住民、カーピンガラ族、外縁の地のクル族、そして同様にウドゥンバラと呼ばれる人々。
Verse 9
वैदेहकाः सपाञ्चालाः संकेताḥ कङ्कमारुताः । गजाह्वयाश्च कूर्मस्य जलमध्यानिवासिनः ॥
ヴァイデーハカ族はパンチャーラ族、サンケータ族、カンカマールタ族とともに、さらにガジャーアフヴァヤ族も—これらは亀の中ほどの水域に住む。
Verse 10
कृत्तिका रोहिणी सौम्या एतेषां मध्यवासिनाम् । नक्षत्रत्रितयं विप्र शुभाशुभविपाकदम् ॥
中ほどに住む者たちにとって、ナクシャトラの三つ—クリッティカー、ローヒニー、サウミヤー—は、ああブラーフマナよ、吉凶の果報を成熟させる。
Verse 11
वृषध्वजोऽञ्जनश्चैव जम्ब्वाख्यो मानवाचलः । शूर्पकर्णो व्याघ्रमुखः खर्मकः करवटाशनः ॥
(また)ヴリシャドヴァジャとアンジャナ、ジャンブヴァーキヤとマーナヴァーチャラ、シュールパカルナ、ヴィヤーグラムカ、カルマカ、カルヴァターシャナがいる。
Verse 12
तथा चन्द्रेश्वराश्चैव खशाश्च मगधास्तथा । गिरयो मैथिलाः शुभ्रास्तथा वदनदन्तुराः ॥
同様に、チャンドレーシュヴァラ族、カサ族、さらにマガダ族があり、諸山岳、肌の明るいマイティラ族、そしてヴァダナダントゥラ族もいる。
Verse 13
प्राग्ज्योतिषाः सलौहित्याः सामुद्राः पुरुषादकाः । पूर्णोत्कटो भद्रगौरस्तथोदयगिरिर्द्विज ॥
おお二度生まれの者よ、プラージュヨーティシャ(Prāgjyotiṣa)、サラウヒティヤ(Salauhitya)、サームドラ(Sāmudra)、および「プルシャーダカ」(Puruṣādaka)があり、またプールノートカタ(Pūrṇotkaṭa)、バドラガウラ(Bhadragaura)、ウダヤギリ(Udayagiri)もある。
Verse 14
कशायाः मेखलामुष्टास्ताम्रलिप्तैकपादपाः । वर्धमानाः कोशलाश्च मुखे कूर्मस्य संस्थिताः ॥
カシャーヤ(Kaśāya)、メーカラー・ムシュタ(Mekhalāmuṣṭa)、タームラリプタ(Tāmralipta)、エーカパーダパーサ(Ekapādapāsa)、ヴァルダマーナ(Vardhamāna)、コーサラ(Kośala)は、宇宙の亀の口の部位に位置する。
Verse 15
रौद्रः पुनर्वसुः पुष्यो नक्षत्रत्रितयं मुखे । पादे तु दक्षिणे देशाः क्रौष्टुके वदतः शृणु ॥
ラウドラ(Raudra)、プナルヴァス(Punarvasu)、プシュヤ(Puṣya)—この三つのナクシャトラは口の領域にある。いま我が語るところを聞け。クラウシュトゥカ(Krauṣṭuka)と呼ばれる区分において、南の足にある国々を。
Verse 16
कलिङ्गवङ्गजठराः कोशलाः मूषिकास्तथा । चेदयश्चोर्ध्वकर्णाश्च मत्स्याद्या विन्ध्यवासिनः ॥
カリンガ(Kaliṅga)、ヴァンガ(Vaṅga)、ジャタラ(Jaṭhara)、コーサラ(Kośala)、そしてムーシカ(Mūṣika);さらにチェーディ(Cedi)、ウルドゥヴァカルナ(Urdhvakarna)、マツヤ(Matsya)およびヴィンディヤ(Vindhya)地方に住む他の者たち。
Verse 17
विदर्भा नारिकेलाश्च धर्मद्वीपास्तथैलिकाः । व्याघ्रग्रीवा महाग्रीवास्त्रैपुराः श्मश्रुधारिणः ॥
ヴィダルバ(Vidarbha)、ナーリケーラ(Nārikelā)、ダルマドヴィーパ(Dharmadvīpa)、同じくアイリカー(Ailikā);さらにヴィヤーグラグリーヴァ(Vyāghragrīva)、マハーグリーヴァ(Mahāgrīva)、トライプラ(Traipura)—いずれも髭をたくわえる者たち。
Verse 18
कैष्किन्ध्याः हैमकूटाश्च निषधाः कटकस्थलाः । दशार्णाहारिका नग्ना निषादाः काकुलालकाः ॥
カイṣキンディヤ族、ハイマクータ族、ニṣダ族、カṭカスタラ族;またダシャールナ族、ハーリカ族、ナグナ族、ニṣーダ族、カークラーラカ族。
Verse 19
तथैव पर्णशबराः पादे वै पूर्वदक्षिणे । आश्लेषर्क्षं तथा पैत्र्यं फाल्गुण्यः प्रथदमास्तथा ॥
同様に、パルナシャバラ族は東南の足にある。アーシュレーṣā、アルクṣa、パイトリヤ;またファールグニーとプラタダマーも同じくこの配列に置かれる。
Verse 20
नक्षत्रत्रितयं पादमाश्रितं पूर्वदक्षिणम् । लङ्का कालाजिनाश्चैव शैलिका निकटास्तथा ॥
東南の足には、ナクシャトラ(三宿)の一組が割り当てられる。(そこには)ランカー、カーラージナー族、シャイリカー族、そして同様にニカタ族がある。
Verse 21
महेन्द्रमलयाद्रौ च दुर्दुरे च वसन्ति ये । कर्कोटकवने ये च भृगुकच्छाः सकोङ्कणाः ॥
マヘーンドラ山とマラヤ山、またドゥルドゥラ山脈に住む者たち;さらにカルコータカの森に住む者たち—コンカナとともにブリグカッチャを含む。
Verse 22
सर्वाश्चैव तथाभीराः वेण्यास्तीरनिवासिनः । अवन्तयो दासपुरास्तथैवाकणिनो जनाः ॥
また同様に、すべてのアービーラ;河岸に住むヴェーニヤ;アヴァンティ、ダーサプラ、そしてアーカニナと呼ばれる人々も。
Verse 23
महाराष्ट्राः सकर्णाटाः गोनर्दाश्चित्रकूटकाः । चोलाः कोलगिराश्चैव क्रौञ्चद्वीपजटाधराः ॥
マハーラーシュトラの民はカルナータの民とともに、またゴーナルダ族とチトラクータの人々、チョーラ族とコラギリ族、さらにクラウンチャ・ドヴィーパの結髪(ジャター)を戴く者(jaṭā-dhara)も、ここに列挙される。
Verse 24
कावेरी ऋष्यमूकस्था नासिक्याश्चैव ये जनाः । शङ्खशुक्त्यादिवैदूर्यशैलप्रान्तचराश्च ये ॥
また、カーヴェリー地方の人々、リシュヤムーカに住む者、ナーシキヤの民、さらに貝殻や牡蠣/真珠などで名高いヴァイドゥーリヤ山脈の辺境に住む者たちも列挙される。
Verse 25
तथा वारिचराः कोलाः चर्मपट्टनिवासिनः । गणबाह्याः पराः कृष्णा द्वीपवास निवासिनः ॥
同様に、水上または水辺を行き来するコーラ族、チャルマパッタに住む者、認められたガナ(gaṇa、共同体)の外にある者、遠方の肌の黒い諸族、そして島の集落に住む者たちもまた記される。
Verse 26
सूर्याद्रौ कुमुदाद्रौ च ते वसन्ति तथा जनाः । औखावनाः सपिशिकास्तथा ये कर्मनायकाः ॥
それらの人々はスーリヤードリとクムダードリに住み、同様にアウクハーヴァナ族、サピシカ族、そしてカルマナーヤカと呼ばれる者たちも言及される。
Verse 27
तक्षिणाः कौरुषा ये च ऋषिकास्तापसाश्रमाः । ऋषभाः सिहलाश्चैव तथा काञ्चीनिवासिनः ॥
タクシナ族とカウルシャ族、苦行者の庵に住むリシカ族、リシャバ族、シハラ(シンハラ/スリランカ)の民、そして同様にカーンチーの住民も列挙される。
Verse 28
तिलङ्गा कुञ्जारदरीकच्छवासाश्च ये जनाः । ताम्रपर्णो तथा कुक्षिरिति कूर्मस्य दक्षिणः ॥
ティランガ族、ならびに象の谷(クンジャラダリー)の湿地(kaccha)に住む人々、またタームラパルニーの地と「腹」(kukṣi)と呼ばれる部分—これらが、亀形の区分たるクールマ(Kūrma)の南方部を成す。
Verse 29
फाल्गुन्यश्चोत्तरा हस्ता चित्रा चर्क्षत्रयं द्विज । कूर्मस्य दक्षिणे कुक्षौ बाह्यपादस्तथापरम् ॥
おお二度生まれの者(dvija)よ、ウッタラー・パールグニー、ハスター、チトラーというナクシャトラ—この三つの星宿—は、クールマ(Kūrma)の南の「腹」(kukṣi)に置かれ、別の所には外側の足が配される。
Verse 30
कम्बोजाः पहलवाश्चैव तथैव वहवामुखाः । तथा च सिन्धुसौवीराः सानर्ता वनितामुखाः ॥
カーンボージャ(Kāmboja)とパフラヴァ(Pahlava)、同様にヴァハヴァームカ(Vahavāmukha)、さらにシンドゥ=サウヴィーラ(Sindhu-Sauvīra)、アーナルタ(Ānarta)、ヴァニタームカ(Vanitāmukha)も列挙される。
Verse 31
द्रावणाः मार्गिकाः शूद्रा कर्णप्राधेयवर्वराः । किराताः पारदाः पाण्ड्यास्तथा पारशवाः कलाः ॥
ドラーヴァナ(Drāvaṇa)、マールギカ(Mārgika)、シュードラ(Śūdra)、カルナプラーデーヤ(Karṇaprādheya)、ヴァルヴァラ(Varvara);またキラータ(Kirāta)、パーラダ(Pārada)、パーンディヤ(Pāṇḍya)、さらにパーラシャヴァ(Pāraśava)とカラ(Kala)も列挙される。
Verse 32
धूर्तका हैमगिरिकाः सिन्धुकालकवैरताः । सौराष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः ॥
ドゥールタカ(Dhūrtaka)、ハイマギリカ(Haimagirika:ヒマラヤ山地の住民)、シンドゥカーラカ(Sindhukālaka)とヴァイラタ(Vairata)、サウラーシュトラ(Saurāṣṭra)とダラダ(Darada)、さらにドラーヴィダ(Drāviḍa)とマハールナヴァ(Mahārṇava)も列挙される。
Verse 33
एते जनपदाः पादे स्थिताः वै दक्षिणेऽपरे । स्वात्यो विशाखा मैत्रञ्च नक्षत्रत्रयमेव च ॥
これらの国土(ジャナパダ)は、宇宙の亀クールマ(Kūrma)の形相における南方の、より遠い(外縁の)足に位置する。同じ地域には月宿(ナクシャトラ)の三座、すなわちスヴァーティー(Svātī)、ヴィシャーカー(Viśākhā)、マイトラ(アヌラーダー Anurādhā)がある。
Verse 34
मणिमेघः क्षुराद्रिश्च खञ्जनोऽस्तगिरिस्तथा । अपरान्तिका हैहयाश्च शान्तिका विप्रशस्तकाः ॥
そこにはマニメーガ(Maṇimegha)、クシュラードリ(Kṣurādri)、カンジャナ(Khañjana)、アスタギリ(Astagiri)があり、またアパラーンティカ(Aparāntika)、ハイハヤ(Haihaya)、シャーンティカ(Śāntika)、ヴィプラシャスタカ(Vipraśastaka)という諸民・諸域もその方角に属すると説かれる。
Verse 35
कौङ्कणाः पञ्चनदका वामना ह्यवरास्तथा । तारक्षुरा ह्यङ्गतकाḥ कर्कराः शाल्मवेश्मकाः ॥
カウンカナ(Kauṅkaṇa)、パンチャナダカ(Pañcanadaka)、ヴァーマナ(Vāmana)、同じくアヴァラ(Avara);さらにターラクシュラ(Tārakṣura)、アンガタカ(Aṅgataka)、カルカラ(Karkara)、シャールマヴェーシュマカ(Śālmaveśmaka)もまた、そこに列挙される。
Verse 36
गुरुस्विराः फल्गुणका वेणुमत्याञ्च ये जनाः । तथा फल्गुलुका घोरा गुरूहाश्च कलास्तथा ॥
グルスヴィラ(Gurusvira)、パルグナカ(Phalguṇaka)、およびヴェーヌマティー(Veṇumatī)の民。さらにパルグルカ(Phalguluka)、ゴーラ(Ghora)、グルハ(Guruha)、カラ(Kala)も同様に言及される。
Verse 37
एकेक्षणा वाजिकेशा दीर्घग्रीवाः सचूलिकाः । अश्वकेशास्तथा पुच्छे जनाḥ कूर्मस्य संस्थिताः ॥
エーケークシャナ(Ekekṣaṇa)、ヴァージケーシャ(Vājikeśa)、ディールガグリーヴァ(Dīrghagrīva)、サチューリカ(Sacūlika)、アシュヴァケーシャ(Aśvakeśa)—これらの諸族は、宇宙の亀の尾の端に位置すると説かれる。
Verse 38
ऐन्द्रं मूलं तथाषाढा नक्षत्रत्रयमेव च । माण्डव्याश्चण्डखाराश्च अश्वकालानतास्तथा ॥
また月宿(ナクシャトラ)の三つの組、すなわちアインドラ(Aindra)、ムーラ(Mūla)、アーシャーダー(Āṣāḍhā)がある。さらにマーンダヴィヤ族(Māṇḍavya)、チャンダカーラ族(Caṇḍakhāra)、同様にアシュヴァカーラナタ族(Aśvakālanata、諸民・諸域)も挙げられる。
Verse 39
कुन्यतालडहाश्चैव स्त्रीबाह्या बालिक्रास्तथा । नृसिंहा वेणुमत्याञ्च बलावस्थास्तथापरे ॥
クニャタ―ラダハ族(Kunyatālaḍaha)、ストリーバーヒャ族(Strībāhya)、バーリクラー族(Bālikrā);またニṛシンハ族(Nṛsiṃha);ヴェーヌマティー(Veṇumatī)の民;さらにバラーヴァスタ族(Balāvastha)なども(列挙される)。
Verse 40
धर्मबद्धास्तथालूका उरुकर्मस्थिताः जनाः । वामपादे जनाः पार्श्वे स्थिताः कूर्मस्य भागुरे ॥
ダルマバッダ族(Dharmabaddha)、アールーカ族(Ālūka)、そしてウルカルマ(Urukarma)に定住する民—これらの諸族は、バーグラ(Bhāgura)の区分において、「亀」の側、左足の上に位置するとされる。
Verse 41
आषाढश्रवणे चैव धनिष्ठा यत्र संस्थिता । कैलासो हिमवांश्चैव धनुष्मान् वसुमांस्तथा ॥
月宿(ナクシャトラ)アーシャーダー(Āṣāḍhā)、シュラヴァナ(Śravaṇa)、ダニシュター(Dhaniṣṭhā)が位置するところ—そこにはまた(地域・山岳として)カイラーサ(Kailāsa)、ヒマヴァーン(Himavān)、ダヌシュマーン(Dhanuṣmān)、ヴァスーマーン(Vasumān)もある。
Verse 42
क्रौञ्चाः कुरुवकाः चैव क्षुद्रवीणाश्च ये जनाः । रसालयाः सकैकेयाः भोगप्रस्थाः सयामुनाः ॥
クラウンチャ族(Krauñca)、クルヴァカ族(Kuruvaka)、クシュドラヴィーナ族(Kṣudravīṇa)—それらの民。さらにラサーラヤ族(Rasālaya)とカイケーヤ族(Kaikeya)、またボーガプラスタ族(Bhogaprastha)とヤームナ族(Yāmuna)も(併せて列挙される)。
Verse 43
अन्तर्द्वोपास्त्रिगर्ताश्च अग्नीjyāḥ सार्दनाः जनाः । तथैवाश्वमुखाः प्राप्ताश्चिविडाः केशधारिणः ॥
また、アンタルドヴォパ族、トリガルタ族、アグニージャ族、サールダナ族があり、同様にアシュヴァムカ族、チヴィダ族、そしてケーシャダーリナ(髪を保ち携える者)も挙げられる。
Verse 44
दासेरका वाटधानाः शवधानास्तथैव च । पुष्कलाधमकैरातास्तथा तक्षशिलाश्रयाः ॥
ダーセラカ族、ヴァータダーナ族、そして同様にシャヴァダーナ族;さらにプシュカラ族、アダマ=キラータ(下位の/低地のキラータ)およびタクシャシラー(タクシラ)内またはその周辺に住む者たちも述べられる。
Verse 45
अम्बाला मालवा मद्रा वेणुकाः सवदन्तिकाः । पिङ्गला मानकलहा हूणाः कोहलकाश्च तथा ॥
アンバーラー族、マーラヴァ族、マドラー族、ヴェーヌカ族、サヴァダンティカ族;さらにピンガラ族、マーナカラハ族、フーナ族、そしてコハラカ族も挙げられる。
Verse 46
माण्डव्या भूतियुवकाः शातका हेमतारकाः । यशोमत्याः सगान्धाराः खरसागरराशयः ॥
マーンダヴィヤ族、ブーティユヴァカ族、シャータカ族、ヘマターラカ族;ヤショーマティヤ族はガーンダーラ族とともに、さらにカラサーガラ=ラーシャヤ族も挙げられる。
Verse 47
यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा । क्षेमधूर्ताश्च कूर्मस्य वामकुक्षिमुपाश्रिताः ॥
ヤウデーヤ族、ダーサメーヤ族、ラージャニヤ族、シャーマカ族;そして宇宙の亀(クールマ)の左脇(vāma-kukṣi)に住むクシェーマドゥールタ族も述べられる。
Verse 48
वारुणञ्चात्र नक्षत्रं तत्र प्रौष्ठपदाद्वयम् । येन किन्नरराज्यञ्च पशुपालं सकीचकम् ॥
ここにはヴァルナ(Varuṇa)に関わるナクシャトラがあり、かしこにもまたプローシュṭhapadā(Proṣṭhapadā)の二宿がある。これによってキンナラ(Kinnara)の領域と、牛飼いの地、さらにキーチャカ(Kīcaka)も示される。
Verse 49
काश्मीरकं तथा राष्ट्रमभिसारजनस्तथा । दवदास्त्वङ्गनाश्चैव कुलटा वनराष्ट्रकाः ॥
またカश्मीर(Kāśmīra)とラーシュトラ(Rāṣṭra)の国、同様にアビサーラ(Abhisāra)の民、ダヴァダー(Davadā)、アンガナー(Aṅganā)、クラタ(Kulaṭa)、ヴァナラーシュトラカ(Vanarāṣṭraka)も(挙げられる)。
Verse 50
सैरिष्ठा ब्रह्मपुरकास्तथैव वनवाह्यकाः । किरातकौशिका नन्दा जनाः पह्णवलोलनाः ॥
サイリシュタ(Sairiṣṭha)、ブラフマプラカ(Brahmapuraka)、またヴァナヴァーヒヤカ(Vanavāhyaka);キラータ=カウシカ(Kirāta-kauśika)、ナンダ(Nanda)、そしてパフナヴァロラナ(Pahṇavalolana)と呼ばれる民。
Verse 51
दार्वादा मरकाश्चैव कुरटाश्चान्नदारकाः । एकपादा खशा घोषाः स्वर्गभौमानवद्यकाः ॥
ダールヴァーダ(Dārvāda)、マーラカ(Maraka)、クラタ(Kuraṭa)、およびアンナダーラカ(Annadāraka);一足の者たるエーカパーダ(Ekapāda)、カシャ(Khaśa)、ゴーシャ(Ghoṣa)、さらにスヴァルガバウマ(Svargabhauma)とアナヴァディヤカ(Anavadyaka)。
Verse 52
तथा सयवना हिङ्गाश्चीरप्रावरणाश्च ये । त्रिनेत्राः पौरवाश्चैव गन्धर्वाश्च द्विजोत्तम ॥
またサヤヴァナ(Sayavana)とヒンガ(Hiṅga)、樹皮の衣をまとう者たち;三つ目の民トリネートラ(Trinetra)、パウラヴァ(Paurava)、そしてガンダルヴァ(Gandharva)もまた—おお、二度生まれの中の最勝者よ。
Verse 53
पूर्वोत्तरन्तु कूर्मस्य पदामेते समाश्रिताः । रेवत्यश्चाश्विदैवत्यं याम्यञ्चर्क्षमिति त्रयम् ॥
この三つの月宿—レーヴァティー(Revatī)、アシュヴィン双神を守護神とするアシュヴィニー(Aśvinī)、および南方の星宿ヤームヤ(Yāmya、すなわちバラニー Bharaṇī)—は、宇宙の亀(クールマ kūrma)の東方と北方の「足・区分」(pāda)に位置すると説かれる。
Verse 54
तत्र पादे समाख्यातं पाकाय मुनिसत्तम । देशेष्वेतेषु चैतानि नक्षत्राण्यपि वै द्विज ॥
おお賢者の中の最勝よ、その「足・区分」(pāda)において、予兆判断(pāka)のためにこれが説き明かされた。しかもこれらの地域においてこそ、まさにこれらの月宿が作用すると理解すべきである、二度生まれし者(dvija)よ。
Verse 55
एतत्पीडा अमी देशाः पीड्यन्ते ये क्रमोदिताः । यान्ति चाभ्युदयं विप्र ग्रहैः सम्यगवस्थितैः ॥
かかる障害によって、正しい順序で列挙されたこれらの地域は苦難に見舞われる。しかも惑星が正しく位置するとき、これらはまた繁栄を得る、ブラーフマナよ。
Verse 56
यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्भावितो भयम् । तद्देशस्य मुनिश्रेष्ठ तदुत्कर्षे शुभागमः ॥
ある月宿の主となる惑星が何であれ、その惑星が不利に損なわれた状態にあるとき、その地域には恐れが生じる、賢者の最勝よ。だがそれが高揚し力を得るとき、吉祥の結果が現れる。
Verse 57
प्रत्येकं देशसामान्यं नक्षत्रग्रहसम्भवम् । भयं लोकस्य भवति शोभनं वा द्विजोत्तम ॥
各地域には、月宿と惑星とから生じる一般的な予兆がある。それは民にとって恐れとなるか、あるいは吉祥となるかである、二度生まれし者の最勝よ。
Verse 58
स्वर्क्षैरशोभनैरजन्तोः सामान्यं इति भीतिदम् । ग्रहैर्भवति पीडोत्थमल्पायासमशोभनम् ॥
人は自らの不吉なナクシャトラ(宿)によって一般の恐れが生ずると言われる。だが諸惑星からは、わずかな働きかけで容易に、しかも避け難く到来する、苦難に由来する不吉が起こる。
Verse 59
तथैव शोभनः पाकः दुःस्थितैश्च तथा ग्रहैः । अल्पोपकाराय नृणां देशज्ञैश्चात्मनो बुधैः ॥
同様に、惑星の配置が悪いときには、吉兆の予告(pāka)でさえ人々にとって益はわずかとなる——方域を知り、自ら弁別する賢者たちが理解するところである。
Verse 60
द्रव्ये गोष्ठेऽथ भृत्येषु सुहृत्सु तनयेषु वा । भार्यायाञ्च गृहे दुष्ठे भयं पुण्यवतां नृणाम् ॥
ある惑星が自らのハウス(graha)において不利に置かれるとき、功徳ある者でさえ、財、牛群・所領、僕、友、息子、そして妻についても恐れが生ずる。
Verse 61
आत्मन्यथाल्पपुण्यानां सर्वत्रैवातिपापिनाम् । नैकत्रापि ह्यपापानां भयमस्ति कदाचन ॥
このように、功徳の乏しい者と大いに罪ある者には、自己のことにさえ及ぶ恐れが至る所に起こる。だが無罪の者には、いかなる場所においても、ただ一処においてすら恐れは決してない。
Verse 62
दिग्देशजनसामान्यं नृपसामान्यमात्मजम् । नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम् ॥
人は、方位・地域・民衆に結びつく一般的影響によって吉凶の果を受け、また王に関わる影響によって、自己の子孫によって、さらにナクシャトラ(宿)と諸惑星の一般的影響によっても、その果報を経験する。
Verse 63
परस्पराभिरक्षा च ग्रहादौस्थ्येन जायते । एतेभ्य एव विप्रेन्द्र ! शुभहानिस्तथाशुभैः ॥
諸惑星などが不利な状態にあるとき、人々のあいだに相互の護りが生じる。まさにそのような配置から、ああ婆羅門の最勝者よ、吉祥なるものの損失が起こり、同様に不吉な影響による害も生ずる。
Verse 64
यदेतत्कूर्मसंस्थानं नक्षत्रेषु मयोदितम् । एतत्तु देशसामान्यमशुभं शुभमेव च ॥
わたしが説いた星宿のうちの「亀の形」の配置—それは一つの地域に関する一般的な徴であり、不吉と吉祥の両方を示し得る。
Verse 65
तस्माद्विज्ञाय देशर्क्षं ग्रहपीडां तथात्मनः । कुर्वोत शान्तिं मेधावी लोकवादांश्च सत्तम ॥
ゆえに、その地域の星辰の徴と、また自らの惑星による障りとを見定めたなら、賢者は鎮静の儀礼(śānti)を修すべきである。さらに「ローカヴァーダ」(世間に聞こえる兆し・風聞)にも心を配るべきである、ああ人中の最勝者よ。
Verse 66
आकाशाद्देवतानाञ्च दैत्यादीनाञ्च दौर्हृदाः । पृथ्व्यां पतन्ति ते लोके लोकवादाः इति श्रुताः ॥
天より、神々やダイティヤ(Daitya)らの不穏・悪意によって、これらの徴は地上に降りかかる。世間ではそれを「ローカヴァーダ」として聞き伝える。
Verse 67
तां तथैव बुधः कुर्यात् लोकवादान्न हापयेत् । तेषान्तत्करणान्नॄणां युक्तो दुष्टागमक्षयः ॥
同様に、賢者はそれに応じて行い、「ローカヴァーダ」を軽んじてはならない。それに従って行動する人々には、迫り来る災いが相応に滅され、または鎮められる。
Verse 68
शुभोदयम् प्रहाणिं च पापानां द्विजसत्तम । प्रज्ञाहानिं प्रकुर्व्युस्ते द्रव्यादीनाञ्च कुर्वते ॥
罪なる影響は、吉祥なる向上と繁栄を失わせる、ああ最勝の婆羅門よ。さらにそれは知性を損ない、財宝などの喪失をも招く。
Verse 69
तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा । लोकवादांश्च शान्तींश्च ग्रहपीडासु कारयेत् ॥
ゆえに賢者は鎮静の儀礼(śānti)に帰依し、同様にローカヴァーダ(lokavāda)にも注意を払うべきである。惑星の災厄の時には、前兆に関するローカヴァーダの作法と、シャーンティの儀礼とを共に行わせよ。
Verse 70
अद्रोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् । जपं होमं तथा दानं स्नानं क्रोधादिवर्जनम् ॥
不害と斎戒、聖所などへの正しい礼拝、ジャパ(japa)、火供(homa)、布施、浄浴、そして怒りやそれに類する過失を避けること——これらが勧められる。
Verse 71
अद्रोहः सर्वभूतेषु मैत्रीं कुर्याच्च पण्डितः । वर्जयेदसतीं वाचमतिवादांस्तथैव च ॥
学識ある者は一切の生きとし生けるものに対して敵意を抱かず、親愛を養うべきである。虚偽・不浄の言葉を避け、また過度なおしゃべりをも避けよ。
Verse 72
ग्रहपूजां च कुर्वोत सर्वपीडासु मानवः । एवं शाम्यन्त्यशेषाणि घोराणि द्विजसत्तम ॥
また、あらゆる障厄において人は諸惑星を礼拝すべきである。かくして一切の恐るべき患難は鎮まる、ああ最勝の再生者よ。
Verse 73
प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यशेषतः । एष कूर्मो मया ख्यातो भारते भगवान् विभुः ॥
勤勉なる者たちのために、惑星と月宿(ナクシャトラ)より生ずる諸結果を、わたしは余すところなく説き明かした。かくして、この大いなる主、亀なるクールマ(Kūrma)を、わたしは『バーラタ』(Bhārata)において叙述したのである。
Verse 74
नारायणो ह्यचिन्त्यात्मा यत्र सर्वं प्रतिष्ठितम् । तत्र देवाः स्थिताः सर्वे प्रतिनक्षत्रसंश्रयाः ॥
その本性が不可思議なるナーラーヤナこそ、万有のすべてが安立する基盤である。そこに諸神は住し、それぞれ自らの月宿(ナクシャトラ)に応じて依りどころを得る。
Verse 75
तथा मध्ये हुतवहः पृथ्वी सोमश्च वै द्विज । मेषादयस्त्रयो मध्ये मुखे द्वौ मिथुनादिकौ ॥
また中央には火神アグニ、地、そしてソーマもある、ああ二度生まれし者よ。中央には牡羊宮に始まる三つの宮があり、口には双子宮に始まる二つの宮がある。
Verse 76
प्राग्दक्षिणे तथा पादे कर्कसिंहौ व्यवस्थितौ । सिंहकन्यातुलाश्चैव कुक्षौ राशैत्रयं स्थितम् ॥
右の前足には蟹宮と獅子宮がある。さらに腹には、獅子宮・乙女宮・天秤宮の三宮が、ひとところに並び置かれている。
Verse 77
तुलाथ वृश्चिकाश्चोभौ पादे दक्षिणपश्चिमे । पृष्ठे च वृश्चिकेनैव सह धन्वी व्यवस्थितः ॥
天秤宮と蠍宮は南西の足にある。また背には、蠍宮とともに、射手宮(サジタリウス)が据えられている。
Verse 78
वायव्ये चास्य वै पादे धनुर्ग्राहादिकं त्रयम् । कुम्भमीनौ तथैवास्य उत्तरां कुक्षिमाश्रितौ ॥
彼の北西の足には、射手宮に始まる三つ—射手宮・磨羯宮・宝瓶宮—が置かれる。同様に、宝瓶宮と双魚宮は彼の北の腹部を占める。
Verse 79
मीनमेषौ द्विजश्रेष्ठ ! पादे पूर्वोत्तरे स्थितौ । कूर्मे देशास्तथर्क्षाणि देशेष्वेतेषु वै द्विज ॥
双魚宮と白羊宮は、ああ最勝の再生者よ、北東の足に位置する。かくして(宇宙の)亀の上には諸方域があり、またナクシャトラ(宿)もあり—それらの方域に配分されている、ああ再生者よ。
Verse 80
राशयश्च तथर्क्षेषु ग्रहराशिष्ववस्थिताः । तस्माद् ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ॥
黄道十二宮もまたナクシャトラ(宿)の中に置かれ、諸惑星はその宮の中にある。ゆえに惑星と宿が損なわれるとき、対応する方域の障りを診断すべきである。
Verse 81
तत्र स्त्रात्वा प्रकुर्वोत दानहोमादिकं विधिम् । स एष वैष्णवः पादो ब्रह्मा मध्ये ग्रहस्य यः । नारायणाख्योऽचिन्त्यात्मा कारणं जगतः प्रभुः ॥
そこにおいて、定められた沐浴・浄化の行を修したのち、布施、火供(ホーマ)などを伴う儀礼を行うべきである。これがヴァイシュナヴァの足である。さらに、惑星体系の中央にあるブラフマー(原理)は、ナラーヤナと呼ばれ、不可思議の本性を具え、世界の原因たる主である。
The chapter asks how cosmic order becomes legible in human geography: Mārkaṇḍeya explains that regional fortune and fear are read through nakṣatra–graha conditions, but the response is ethical and ritual—non-violence, truth-restraint, devotion, and śānti rites—so astrology functions as a discipline of responsibility rather than fatalism.
It does not directly enumerate a Manu, lineage, or Manvantara chronology. Instead, it supplies an interpretive apparatus—linking nakṣatras, grahas, and rāśis to Bhārata’s regions—that can be used to read collective (deśa-sāmānya) outcomes within any age, complementing the Purāṇa’s broader analytical style.
This chapter is outside the Devī Māhātmya (Adhyāyas 81–93) and contains no stuti or battle-cycle of the Goddess. Its distinctive contribution is the Kūrma-saṃsthāna model centered on Nārāyaṇa and the practical śānti framework for mitigating graha/arkṣa afflictions affecting regions and rulers.