Uddhava Sent to Vraja: Consolation to Nanda-Yaśodā and the Gopīs’ Separation
वासितार्थेऽभियुध्यद्भिर्नादितं शुश्मिभिर्वृषै: । धावन्तीभिश्च वास्राभिरुधोभारै: स्ववत्सकान् ॥ ९ ॥ इतस्ततो विलङ्घद्भिर्गोवत्सैर्मण्डितं सितै: । गोदोहशब्दाभिरवं वेणूनां नि:स्वनेन च ॥ १० ॥ गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयो: । स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् ॥ ११ ॥ अग्न्यर्कातिथिगोविप्रपितृदेवार्चनान्वितै: । धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम् ॥ १२ ॥ सर्वत: पुष्पितवनं द्विजालिकुलनादितम् । हंसकारण्डवाकीर्णै: पद्मषण्डैश्च मण्डितम् ॥ १३ ॥
vāsitārthe ’bhiyudhyadbhir nāditaṁ śuśmibhir vṛṣaiḥ dhāvantībhiś ca vāsrābhir udho-bhāraiḥ sva-vatsakān
ゴークラは四方から響いていた。発情した牡牛が実り多き雌牛を求めて争う轟き、乳房の重い雌牛が子牛を追って鳴く声、乳搾りの音と白い子牛の跳ね回る気配、笛のこだま、そして飾り立てたゴーパとゴーピーがバララーマとシュリー・クリシュナの吉祥なる御業を歌う声である。
Although Gokula was merged in grief because of separation from Lord Kṛṣṇa, the Lord expanded His internal potency to cover that particular manifestation of Vraja and allow Uddhava to see the normal bustle and joy of Vraja at sunset.