Ishavasya
विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥
विद्याम् । च । अविद्याम् । च । यः । तत् । वेद । उभयम् । सह । अविद्यया । मृत्युम् । तीर्त्वा । विद्यया । अमृतम् । अश्नुते ॥
vidyāṃ cāvidyāṃ ca yas tad vedobhayam saha | avidyayā mṛtyuṃ tīrtvā vidyayā ’mṛtam aśnute ||11||
Ia yang mengetahui itu—vidyā dan avidyā keduanya bersama—dengan avidyā ia menyeberangi maut, dan dengan vidyā ia meraih amṛta, keabadian.
He who knows that—both knowledge and ignorance together—crossing over death by ignorance, attains immortality by knowledge.