Sukta 10.34
अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः । तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥
अ॒क्षैर्मा दी॑व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः । तत्र॒ गाव॑: कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥
akṣáir mā́ dī́vyaḥ kṛṣím ít kṛṣasva vitté ramasva bahú mányamānaḥ | tátra gā́vaḥ kitava tátra jāyā́ tán me ví caṣṭe savitā́yám aryáḥ ||
Jangan bermain dadu; garaplah ladang—kerjakanlah pekerjaanmu yang sejati. Bergembiralah dalam harta yang diperoleh dengan benar, menganggapnya berlimpah. Di sanalah sapi-sapi, wahai penjudi; di sanalah istri: demikian Savitṛ, sang mulia, menyingkapkannya kepadaku.
अ॒क्षैः । मा । दी॒व्य॒ह् । कृ॒षिम् । इत् । कृ॒ष॒स्व॒ । वि॒त्ते । र॒म॒स्व॒ । ब॒हु । मन्य॑मानः । तत्त्र॑ । गावः॑ । कि॒त॒व॒ । तत्र॑ । जा॒या । तत् । मे॒ । वि । च॒ष्टे॒ । स॒वि॒ता । अ॒यम् । अ॒र्यः ॥अक्षैः । मा । दीव्यह् । कृषिम् । इत् । कृषस्व । वित्ते । रमस्व । बहु । मन्यमानः । तत्त्र । गावः । कितव । तत्र । जाया । तत् । मे । वि । चष्टे । सविता । अयम् । अर्यः ॥akṣaiḥ | mā | dīvyah | kṛṣim | it | kṛṣasva | vitte | ramasva | bahu | manyamānaḥ | tattra | gāvaḥ | kitava | tatra | jāyā | tat | me | vi | caṣṭe | savitā | ayam | aryaḥ