Sukta 10.114
कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां प्रति वाचं पपाद । कमृत्विजामष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥
कश्छन्द॑सां॒ योग॒मा वे॑द॒ धीर॒: को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद । कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥
káś chándasāṃ yógam ā́ veda dhī́raḥ kó dhiṣṇyā́ṃ práti vā́caṃ papāda | kám ṛ́tvijāṃ aṣṭamáṃ śū́ram āhur hárī índrasya ní cikāya káḥ svit ||
Siapakah sang bijak yang mengetahui penyatuan metrum-metrum (chandas)? Siapa yang telah mencapai singgasana suci, menghadap kepada Sabda (Vāc)? Siapakah yang mereka sebut pahlawan kedelapan di antara para ṛtvij (imam)? Siapakah sesungguhnya yang telah mengenali dua kuda kuning-kecokelatan (harī) milik Indra?
कः । छन्द॑साम् । योग॑म् । आ । वे॒द॒ । धीरः॑ । कः । धिष्ण्या॑म् । प्रति॑ । वाच॑म् । प॒पा॒द॒ । कम् । ऋ॒त्विजा॑म् । अ॒ष्ट॒मम् । शूर॑म् । आ॒हुः॒ । हरी॒ इति॑ । इन्द्र॑स्य । नि । चि॒का॒य॒ । कः । स्वि॒त् ॥कः । छन्दसाम् । योगम् । आ । वेद । धीरः । कः । धिष्ण्याम् । प्रति । वाचम् । पपाद । कम् । ऋत्विजाम् । अष्टमम् । शूरम् । आहुः । हरी इति । इन्द्रस्य । नि । चिकाय । कः । स्वित् ॥kaḥ | chandasām | yogam | ā | veda | dhīraḥ | kaḥ | dhiṣṇyām | prati | vācam | papāda | kam | ṛtvijām | aṣṭamam | śūram | āhuḥ | harī iti | indrasya | ni | cikāya | kaḥ | svit