Sukta 1.165
अमन्दन्मा मरुतः स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र । इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः ॥
अम॑न्दन्मा मरुत॒: स्तोमो॒ अत्र॒ यन्मे॑ नर॒: श्रुत्यं॒ ब्रह्म॑ च॒क्र । इन्द्रा॑य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा॑यस्त॒न्वे॑ त॒नूभि॑: ॥
amándan mā marutaḥ stómó atrá yán me naraḥ śrútyaṁ bráhma cakrá | índrāya vṛ́ṣṇe súmakhāya máhyaṁ sákhye sakhāyas tanvé tanū́bhiḥ ||
Marut telah menggembirakanku di sini dengan kidung, ketika para pahlawan membentuk bagiku Sabda (Brahman) yang patut didengar. Bagi Indra Sang Banteng, bagi yang berwajah elok, bagiku—sahabat dalam persahabatan—mereka datang dengan tubuh-tubuh mereka kepada diriku yang bertubuh.
अम॑न्दत् । मा॒ । म॒रु॒तः॒ । स्तोमः॑ । अत्र॑ । यत् । मे॒ । न॒रः॒ । श्रुत्य॑म् । ब्रह्म॑ । च॒क्र । इन्द्रा॑य । वृष्णे॑ । सुऽम॑खाय । मह्य॑म् । सख्ये॑ । सखा॑यः । त॒न्वे॑ । त॒नूभिः॑ ॥अमन्दत् । मा । मरुतः । स्तोमः । अत्र । यत् । मे । नरः । श्रुत्यम् । ब्रह्म । चक्र । इन्द्राय । वृष्णे । सुमखाय । मह्यम् । सख्ये । सखायः । तन्वे । तनूभिः ॥amandat | mā | marutaḥ | stomaḥ | atra | yat | me | naraḥ | śrutyam | brahma | cakra | indrāya | vṛṣṇe | su-makhāya | mahyam | sakhye | sakhāyaḥ | tanve | tanūbhiḥ