Sukta 1.108
यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
यदि॑न्द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दये॑थे । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
yád indrāgnī úd itā́ sū́ryasya mádhye diváḥ svadháyā mādayethe | atáḥ pári vṛṣaṇā́vā hí yātam áthā sómasya pibatam sutásya ||
Jika, wahai Indra-Agni, kalian bersukacita oleh daya kalian sendiri pada terbitnya Surya, di tengah langit—maka dari sana datanglah berkeliling, wahai dua yang perkasa; dan minumlah Soma yang telah diperas.
यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । उत्ऽइ॑ता । सूर्य॑स्य । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दये॑थे॒ इति॑ । अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । उत्इता । सूर्यस्य । मध्ये । दिवः । स्वधया । मादयेथे इति । अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yat | indrāgnī iti | ut-itā | sūryasya | madhye | divaḥ | svadhayā | mādayetheiti | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya