Sukta 1.108
य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे । तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥
य इ॑न्द्राग्नी चि॒त्रत॑मो॒ रथो॑ वाम॒भि विश्वा॑नि॒ भुव॑नानि॒ चष्टे॑ । तेना या॑तं स॒रथं॑ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
yá índrāgnī citrátamo rátho vām abhí víśvāni bhúvanāni cáṣṭe | ténā yātaṃ saráthaṃ tasthivā́ṃsā áthā sómasya pibatam sutásya ||
Wahai Indra dan Agni, kereta kalian yang paling cemerlang, yang memandang segala dunia—dengan itu datanglah, berdiri bersama pada satu kereta; lalu minumlah Soma yang telah diperas.
यः । इ॒न्द्रा॒ग्नी॒ इति॑ । चि॒त्रऽत॑मः । रथः॑ । वा॒म् । अ॒भि । विश्वा॑नि । भुव॑नानि । चष्टे॑ । तेन॑ । आ । या॒त॒म् । स॒ऽरथ॑म् । त॒स्थि॒वांसा॑ । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यः । इन्द्राग्नी इति । चित्रतमः । रथः । वाम् । अभि । विश्वानि । भुवनानि । चष्टे । तेन । आ । यातम् । सरथम् । तस्थिवांसा । अथ । सोमस्य । पिबतम् । सुतस्य ॥yaḥ | indrāgnī iti | citra-tamaḥ | rathaḥ | vām | abhi | viśvāni | bhuvanāni | caṣṭe | tena | ā | yātam | sa-ratham | tasthivāṃsā | atha | somasya | pibatam | sutasya