HomeUpanishadsKatharudraVerse 8
Previous Verse
Next Verse

Verse 8

Katharudra

कुण्डिकां चमसं शिक्यं त्रिविष्टमुपानहौ । शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥ पवित्रं ज्ञानशाटीं च उत्तरासङ्गमेव च । यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः ॥ स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत् । नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् ॥ नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् । स्तूयमानो न तुष्येत निन्दितो न शपेत्परान् ॥

कुण्डिकाम् । चमसम् । शिक्यम् । त्रिविष्टम् । उपानहौ । शीत-उपघातिनीम् । कन्थाम् । कौपीन-आच्छादनम् । तथा । पवित्रम् । ज्ञान-शाटीम् । च । उत्तर-आसङ्गम् । एव । च । यज्ञ-उपवीतम् । वेदान् । च । सर्वम् । तत् । वर्जयेत् । यतिः । स्नानम् । पानम् । तथा । शौचम् । अद्भिः । पूताभिः । आचरेत् । नदी-पुलिन-शायी । स्यात् । देव-आगारेषु । वा । स्वपेत् । न । अत्यर्थम् । सुख-दुःखाभ्याम् । शरीरम् । उपतापयेत् । स्तूयमानः । न । तुष्येत् । निन्दितः । न । शपेत् । परान् ।

kuṇḍikāṃ camasaṃ śikyaṃ trivīṣṭam upānahau | śītopaghātinīṃ kanthāṃ kaupīnācchādanaṃ tathā || pavitraṃ jñānaśāṭīṃ ca uttarāsaṅgam eva ca | yajñopavītaṃ vedāṃś ca sarvaṃ tad varjayet yatiḥ || snānaṃ pānaṃ tathā śaucam adbhiḥ pūtābhir ācaret | nadīpulinaśāyī syād devāgāreṣu vā svapet || nātyarthaṃ sukhaduḥkhābhyāṃ śarīram upatāpayet | stūyamāno na tuṣyet nindito na śapet parān ||

यति को चाहिए कि वह कमण्डलु, भिक्षापात्र, झोली, त्रिदण्ड, पादुका, शीत-रक्षक कन्था, कौपीन-आवरण; तथा पवित्र, ज्ञान-वस्त्र, उत्तरीय, यज्ञोपवीत और वेदों के बाह्य आश्रय—इन सबका त्याग कर दे। स्नान, पान और शौच वह शुद्ध जल से करे। वह नदी के पुलिन पर शयन करे या देवालयों में सोए। सुख-दुःख के द्वारा शरीर को अत्यधिक न सताए। प्रशंसा में हर्षित न हो, निन्दा में दूसरों को शाप न दे।

The renunciant should abandon the water-pot, the begging-bowl, the carrying-sling, the triple staff, footwear, the cold-protecting cloak, and the loincloth-covering; likewise the purifier, the ‘knowledge-cloth’, and the upper garment; also the sacred thread and even the Vedas—he should renounce all that. Bathing, drinking, and purification he should perform with water that is pure. He should lie on the sandbank of a river, or sleep in temples. He should not excessively torment the body by pleasure and pain. When praised he should not be delighted; when blamed he should not curse others.

Vairāgya and samatā as immediate supports for jñāna-niṣṭhā (abidance in knowledge)Mahavakya: Indirect: emphasizes mental purification and detachment required for stable assimilation of mahāvākya teachingKrishna YajurvedaTaittirīya (commonly affiliated for minor Saiva-Yajur Upaniṣads; manuscript traditions vary) ShakhaChandas: Mixed anuṣṭubh-style ślokas (post-Vedic metrical Sanskrit; not strict Vedic chandas)