इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒यं वाज॑ᳪ से॑त् । वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत्
índrasya vájro ’si vājasā́s tváyāyáṃ vā́jaṃ set | vā́jasya nú prasavé mā́taraṃ mahī́m áditiṃ nā́ma vácasā karāmahe | yásyām idáṃ víśvaṃ bhúvanam āvivéśa tásyāṃ no deváḥ savitā́ dhárma sāviṣat
तू इन्द्र का वज्र है; तेरे द्वारा यह वाज (पुरस्कार/विजय) प्राप्त करे। अब वाज की प्रवृत्ति/प्रसव के लिए, हम वाणी से महान माता—अदिति—का नाम लेकर आवाहन करते हैं; जिसमें यह समस्त भुवन (जगत्) प्रविष्ट है। उसी में हमारे लिए देव सविता धर्म (ऋत/विधि) को प्रेरित करे।
इन्द्र॑स्य । वज्रः॑ । असि । वाज॒साः । त्वया॑ । अ॒यम् । वाज॑म् । से॒त् । वाज॑स्य । नु । प्र॒स॒वे । मा॒तर॑म् । म॒हीम् । अदि॑तिम् । नाम॑ । वच॑सा । क॒रा॒म॒हे । यस्या॑म् । इ॒दम् । विश्व॑म् । भुव॑नम् । आ॒वि॒वेश॑ । तस्या॑म् । नः॒ । दे॒वः । स॒वि॒ता । धर्म॑ । सा॒वि॒ष॒त्