दे॒व॒श्रुतौ॑ दे॒वेष्वा घो॑षतं॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतम् । स्वं गो॒ष्ठमा व॑दतं देवी दुर्ये॒ आयु॒र्मा निर्वा॑दिष्टं प्र॒जां मा निर्वा॑दिष्ट॒मत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः
devaśrutáu deveṣv ā́ ghoṣataṃ prācī́ prétaṃ adhvaráṃ kalpáyantī ūrdhvám yajñáṃ nayataṃ mā́ jihvaratam | sváṃ goṣṭhám ā́ vadataṃ devī duryé ā́yur mā́ nirvādiṣṭaṃ prajā́ṃ mā́ nirvādiṣṭam átra ramethāṃ várṣman pṛthivyā́ḥ
हे देव-श्रुत (देवों में प्रसिद्ध) दोनों, देवों के बीच उद्घोष करो; पूर्व दिशा की ओर जाओ, यज्ञ का विधान करते हुए। यज्ञ को ऊर्ध्व की ओर ले जाओ—कहीं जिह्वा (वाणी) से डिगो मत। हे देवियो, कठिन मार्ग में अपने ही गोष्ठ (आवास) को पुकारो/कहो। मेरा आयु न छीना जाए, मेरी प्रजा न छीनी जाए; यहाँ तुम पृथ्वी के पृष्ठ (वक्ष) पर रमण करो।
दे॒व॒श्रुतौ॑ । दे॒वेषु॑ । आ । घो॑षतम् । प्राची॑ । प्र । इतम् । अ॒ध्व॒रम् । क॒ल्पय॑न्ती इति । ऊ॒र्ध्वम् । य॒ज्ञम् । न॒यतम् । मा । जि॒ह्व॒रतम् । स्वम् । गो॒ष्ठम् । आ । व॒दतम् । दे॒वी इति । दु॒र्ये॑ । आयुः॑ । मा । नि॒र्वा॑दिष्टम् । प्र॒जाम् । मा । नि॒र्वा॑दिष्टम् । अत्र॑ । र॒मे॒थाम् । वर्ष्म॑न् । पृ॒थि॒व्याः