उ॒त नोऽहि॑र्बु॒ध्न्य॒: शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः । विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒ना स्तु॒ता मन्त्रा॑: कविश॒स्ता अ॑वन्तु
utá no’ḥír budhnyàḥ śṛṇotu ajá ékapāt pṛthivī́ samudráḥ | víśve devā́ ṛtā́vṛdho huvānā́ stutā́ mantrā́ḥ kaviśastā́ avantu
और अहि-बुध्न्य हमारे लिए सुनें; अज-एकपाद, पृथ्वी और समुद्र भी (सुनें)। ऋत के वर्धक, आह्वान किए गए समस्त देव—ऋषियों द्वारा प्रशंसित, स्तुत मंत्र—हमारी रक्षा करें और हमें आगे बढ़ाएँ।
उत । नः । अहिः । बुध्न्यः । शृणोतु । अजः । एकपात् । पृथिवी । समुद्रः । विश्वे । देवाः । ऋत-वृधः । हुवानाः । स्तुताः । मन्त्राः । कवि-शस्ताः । अवन्तु