उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् । उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वाना॑ᳪ सुम॒तौ स्या॑म
utédānīṃ bhágavantaḥ syāmótá prapitvé utá mádhye áhnām | utóditā maghaván sū́ryasya vayáṃ devā́nāṃ sumatáu syāma
और हम अभी भी भाग्यवान हों; और दिनों के प्रथम भाग में भी, और मध्य में भी। और सूर्य के उदय पर, हे मघवन्—हम देवों की सुमति (अनुग्रह) में स्थित रहें।
उत । इदानीम् । भगवन्तः । स्याम । उत । प्रपित्वे । उत । मध्ये । अह्नाम् । उत । उदिता । मघवन् । सूर्यस्य । वयम् । देवानाम् । सुमतौ । स्याम ।