अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शे-वि॑शे
ayám ihá prathamó dhā́yi dhātṛ́bhir hotā́ yájiṣṭho adhvaréṣv ī́ḍyaḥ | yám apnávāno bhr̥gávo virurucúr váneṣu citráṃ vibhváṃ víśe-viśe
यह (अग्नि) यहाँ धातृगणों द्वारा सर्वप्रथम स्थापित किया गया—होतृ, यजनों में अति-यजमान, अध्वर-यज्ञों में स्तुत्य। जिसे प्राप्त करके भृगुओं ने वनों में प्रकाशित किया—वह विचित्र, विभु, प्रत्येक जन-जन के लिए।
अयम् । इह । प्रथमः । धायि । धातृभिः । होता । यजिष्ठः । अध्वरेषु । ईड्यः । यम् । अप्नवानः । भृगवः । विरुरुचुः । वनेषु । चित्रम् । विभ्वम् । विशे-विशे