दे॒वी उ॒षासा॒नक्ता॑ दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् । अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं बल॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑
devī́ uṣā́sā náktā devám índraṃ vayo̱dhásaṃ devī́ devám avardhatām | anuṣṭúbhā chándasendriyáṃ bálaṃ índre̱ vayo̱ dádhad vasuváne vasudhéyasya vītā́ṃ yája
देवी उषा और रात्रि—बल (वयस्) प्रदान करने वाली—वे दिव्य देवियाँ देव इन्द्र को बढ़ाएँ। अनुṣṭubh छन्द से (मैं) इन्द्र का इन्द्रिय-बल (पराक्रम) स्थापित करता हूँ; इन्द्र में बल, वह वयस्, धारण करता हूँ। वसुओं के अर्जन में, वसुधेय (धन-स्थापन) के हेतु, वे दोनों यहाँ आएँ और यज्ञ-भाग का आस्वादन करें—यज।
दे॒वी । उ॒षासा॑ । नक्ता॑ । दे॒वम् । इन्द्र॑म् । व॒यो॒धसम् । दे॒वी । दे॒वम् । अ॒व॒र्ध॒ता॒म् । अ॒नु॒ष्टुभा॑ । छन्द॑सा । इ॒न्द्रि॒यम् । बलम् । इन्द्रे॑ । व॒यः । दध॑त् । व॒सु॒वने॑ । व॒सु॒धेय॑स्य । वी॒ता॒म् । यज॑