आ न॒ इन्द्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः । ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः स॒ङ्गे स॒मत्सु॑ तु॒र्वणि॑: पृत॒न्यून्
ā́ na índro dūrā́d ā́ na āsád abhiṣṭi-kṛ́d ávase yāsad ugráḥ | ójiṣṭhebhir nṛpátir vájra-bāhuḥ sáṅge samátsu turváṇiḥ pṛtan yū́n
दूर से इन्द्र हमारे पास आएँ; सहायक, उग्र, हमारी रक्षा के लिए आकर यहाँ आसन ग्रहण करें। अत्यन्त प्रबल शक्तियों से युक्त, मनुष्यों के स्वामी, वज्र-बाहु—संग्रामों और समर-समूहों में वेगवान—(वे) शत्रु योद्धाओं का दमन करें।
आ । नः । इन्द्रः । दूरात् । आ । नः । आसद् । अभिष्टि-कृत् । अवसे । यासत् । उग्रः । ओजिष्ठेभिः । नृ-पतिः । वज्र-बाहुः । सङ्गे । समत्सु । तुर्वणिः । पृतन्यून्