अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ द्योतता॒मप्र॑युच्छन् । वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ उप॒ प्र या॑हि दि॒व्यानि॒ धाम॑
ayám agnír vī́ratamo vayodhā́ḥ sahásriyo dyotatām áprayucchan | vibhrā́jamānaḥ sarī́rasya mádhya úpa prá yāhi divyā́ni dhā́ma
यह अग्नि परम-वीर, बल-प्रदाता, सहस्रगुण; वह अविराम दीप्त हो। शरीर के मध्य में विभ्राजमान होकर, हे (अग्ने), दिव्य धामों की ओर आगे बढ़।
अयम् । अग्निः । वीरतमः । वयोधाः । सहस्रियः । द्योतताम् । अप्रयुच्छन् । विभ्राजमानः । सरीरस्य । मध्यम् । उप । प्र । याहि । दिव्यानि । धाम ।