इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒त्या हे॑म॒न्तो वा॒च्यः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ॑ग्रय॒णात् त्रि॑णवत्रयस्त्रि॒ᳪशौ त्रि॑णवत्रयस्त्रि॒ᳪशाभ्या॑ᳪ शाक्वररैव॒ते वि॒श्वक॑र्म॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यो॑ लो॒कं ता इन्द्र॑म्
i̱yám u̱pári ma̱tís tasyái vā́ṅ mā̱tyā héma̱nto vā̱cyaḥ páṅktir hai̱mantī́ páṅktyai ni̱dhanavan ni̱dhanavat ā̱graya̱ṇa ā̱graya̱ṇāt tri̱ṇavat-trayastríṃśau tri̱ṇavat-trayastríṃśābhyā̱ṃ śā̱kvara-raiva̱te vi̱śvákarma̱ ṛ́ṣiḥ prajāpati-gṛhītayā̱ tváyā̱ vā́caṃ gṛhṇāmi pra̱jā́bhyo lo̱káṃ tā́ índram
यह ऊपर ‘मति’ (विचार) है; उसकी ‘वाक्’ मापित वाणी है। हेमन्त ऋतु वाणी की है; हेमन्तीय छन्द ‘पङ्क्ति’ है। पङ्क्ति के लिए ‘निधनवत्’ (निधन-युक्त) स्तोत्र है; निधनवत् से ‘आग्रयण’ होता है; अग्रयण से ‘त्रिणवत्-त्रयस्त्रिंश’ (उनतालीस और तैंतीस) होते हैं; त्रिणवत्-त्रयस्त्रिंश से ‘शाक्वर’ और ‘रैवत’ (छन्द/स्तोत्र) होते हैं। इसके ऋषि विश्वकर्मा हैं। प्रजापति द्वारा गृहीत तुम्हारे द्वारा मैं प्रजाओं के लिए वाणी ग्रहण करता हूँ; (और) लोक को—हे इन्द्र—उनको (प्राप्त कराऊँ)।
इयम् । उपरि । मतिः । तस्यै । वाक् । मात्या । हेमन्तः । वाच्यः । पङ्क्तिः । हैमन्ती । पङ्क्त्यै । निधनवत् । निधनवत् । आग्रयणः । आग्रयणात् । त्रिणवत्-त्रयस्त्रिंशौ । त्रिणवत्-त्रयस्त्रिंशाभ्याम् । शाक्वर-रैवते । विश्वकर्मा । ऋषिः । प्रजापति-गृहीतया । त्वया । वाचम् । गृह्णामि । प्रजाभ्यः । लोकम् । ताः । इन्द्रम् ।