अग्ने॒ त्वं पु॑री॒ष्यो॒ रयि॒मान् पु॑ष्टि॒माँ२ अ॑सि । शि॒वाः कृ॒त्वा दिश॒: सर्वा॒: स्वं योनि॑मि॒हाऽस॑दः
ágne tváṃ purīṣyó rayímān puṣṭímāṃ2 ási | śivā́ḥ kṛtvā́ díśaḥ sárvāḥ sváṃ yónim ihā́sadah
हे अग्नि, तू पुरीष्य है; तू धनवान और पुष्टिमान है। सब दिशाओं को शिव (मंगल) करके, तू यहाँ अपने ही स्व-योनि (स्व-आसन/स्व-स्थान) पर आसीन हो।
अग्ने । त्वम् । पुरीष्यः । रयिमान् । पुष्टिमान् । असि । शिवाः । कृत्वा । दिशः । सर्वाः । स्वम् । योनिम् । इह । आसदः ।