अग्ने॒ यत्ते॑ दि॒वि वर्च॑ः पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षा॑ः ॥
agné yát te diví várcaḥ pṛthivyā́ṃ yád oṣadhī́ṣv apsv ā́ yajatra | yénāntárikṣam urvā́ tatántha tveṣáḥ sá bhānúr arṇavó nṛcákṣāḥ ||
हे अग्ने, तेरा जो तेज दिवि में है, और जो पृथ्वी पर है, और जो ओषधियों में तथा अप्सु (जल) में है—हे यजत्र! जिससे तूने विस्तृत अन्तरिक्ष को तान दिया—वही तेरा उग्र भानु, अर्णव-सा प्रवाहमान प्रकाश, मनुष्यों के लिए प्रत्यक्ष है।
अग्ने । यत् । ते । दिवि । वर्चः । पृथिव्याम् । यत् । ओषधीषु । अप्सु । आ । यजत्र । येन । अन्तरिक्षम् । उर्वा । ततन्थ । त्वेषः । सः । भानुः । अर्णवः । नृ-चक्षाः ।