अपे॑त वी॒त वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑द्य॒मो॒ऽव॒सानं॑ पृथि॒व्या अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै
apéta vīta ví ca sarpatātó yé’tra sthá purāṇā́ yé ca nū́tanāḥ | adā́d yamó’vasā́naṃ pṛthivyā́ ákrann imáṃ pitáro lokám asmai
हट जाओ! दूर हो जाओ! सरकते हुए निकल जाओ और विलीन हो जाओ—जो यहाँ हैं, चाहे पुराने हों चाहे नये। यम ने पृथ्वी की सीमा निर्धारित की है; पितरों ने उसके लिए यह लोक रचा है।
अपेत । वीत । वि । च । सर्पतातः । ये । अत्र । स्थ । पुराणाः । ये । च । नूतनाः । अदात् । यमः । अवसानम् । पृथिव्याः । अक्रन् । इमम् । पितरः । लोकम् । अस्मै ।