Sukta 6.60
आ नो गव्येभिरश्व्यैर्वसव्यैरुप गच्छतम् । सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥
आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३॒॑रुप॑ गच्छतम् । सखा॑यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे॑न्द्रा॒ग्नी ता ह॑वामहे ॥
ā no gavyebhir aśvyair vasavyair upa gacchatam | sakhāyau devau sakhyāya śam-bhuvendrāgnī tā havāmahe ||
दीप्तिमान् गव्यों (गोधन) के साथ, अश्व्य (अश्व-बल) के साथ, और वसव्य (समृद्ध धन-वैभव) के साथ हमारे पास आओ; समीप आओ। हे देव-सखा, सख्य के लिए और शम्भु (कल्याण, शान्ति-आनन्द) के लिए—हे इन्द्रा-अग्नी, हम तुम दोनों का आह्वान करते हैं।
आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । व॒स॒व्यैः॑ । उप॑ । ग॒च्छ॒त॒म् । सखा॑यौ । दे॒वौ । स॒ख्याय॑ । श॒म्ऽभुवा॑ । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥आ । नः । गव्येभिः । अश्व्यैः । वसव्यैः । उप । गच्छतम् । सखायौ । देवौ । सख्याय । शम्भुवा । इन्द्राग्नी इति । ता । हवामहे ॥ā | naḥ | gavyebhiḥ | aśvyaiḥ | vasavyaiḥ | upa | gacchatam | sakhāyau | devau | sakhyāya | śam-bhuvā | indrāgnī iti | tā | havāmahe