Sukta 6.50
एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः । ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥
ए॒वा नपा॑तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा॑जा अ॒भ्य॑र्चन्त्य॒र्कैः । ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे॑ स्तु॒तासो॑ भूता यजत्राः ॥
evā́ napāto máma tásya dhībhír bháradvājā abhy àrcanty arkáiḥ | gnā́ hutā́so vásavo ’dhṛṣṭā víśve stutā́so bhūtā yajatrāḥ ||
हे नपातो, मेरे इन ही धियों से भारद्वाज तुम्हें ऋचाओं/अर्कों से अभ्यर्चना करते हैं। हे दिव्य शक्तियो, हे वसु-गण, अजेय, तुम सब सर्वथा स्तुत और यज्ञ-योग्य बनो; अपने तेजस्वी प्रकाश से हमारे हवि-समर्पण में प्रविष्ट होओ।
ए॒व । नपा॑तः । मम॑ । तस्य॑ । धी॒भिः । भ॒रत्ऽवा॑जाः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः । ग्नाः । हु॒तासः॑ । वस॑वः । अधृ॑ष्टाः । विश्वे॑ । स्तु॒तासः॑ । भू॒त॒ । य॒ज॒त्राः॒ ॥एव । नपातः । मम । तस्य । धीभिः । भरत्वाजाः । अभि । अर्चन्ति । अर्कैः । ग्नाः । हुतासः । वसवः । अधृष्टाः । विश्वे । स्तुतासः । भूत । यजत्राः ॥eva | napātaḥ | mama | tasya | dhībhiḥ | bharat-vājāḥ | abhi | arcanti | arkaiḥ | gnāḥ | hutāsaḥ | vasavaḥ | adhṛṣṭāḥ | viśve | stutāsaḥ | bhūta | yajatrāḥ